Sunday, 8 July 2007

श्री कालभैरवाष्टकं

श्री कालभैरवाष्टकं ॥
देवराजसेव्यमानपावनांघ्रिपङ्कजं व्यालयज्ञसूत्रमिन्दुशेखरं कृपाकरम् ।
नारदादियोगिवृन्दवन्दितं दिगंबरं काशिकापुराधिनाथकालभैरवं भजे ॥ १॥
भानुकोटिभास्वरं भवाब्धितारकं परं नीलकण्ठमीप्सितार्थदायकं त्रिलोचनम् ।
कालकालमंबुजाक्षमक्षशूलमक्षरं काशिकापुराधिनाथकालभैरवं भजे ॥ २॥
शूलटंकपाशदण्डपाणिमादिकारणं श्यामकायमादिदेवमक्षरं निरामयम् ।
भीमविक्रमं प्रभुं विचित्रताण्डवप्रियं काशिकापुराधिनाथकालभैरवं भजे ॥ ३॥
भुक्तिमुक्तिदायकं प्रशस्तचारुविग्रहं भक्तवत्सलं स्थितं समस्तलोकविग्रहम् ।
विनिक्वणन्मनोज्ञहेमकिङ्किणीलसत्कटिं काशिकापुराधिनाथकालभैरवं भजे ॥ ४॥
धर्मसेतुपालकं त्वधर्ममार्गनाशनं कर्मपाशमोचकं सुशर्मधायकं विभुम् ।
स्वर्णवर्णशेषपाशशोभितांगमण्डलं काशिकापुराधिनाथकालभैरवं भजे ॥ ५॥
रत्नपादुकाप्रभाभिरामपादयुग्मकं नित्यमद्वितीयमिष्टदैवतं निरंजनम् ।
मृत्युदर्पनाशनं करालदंष्ट्रमोक्षणं काशिकापुराधिनाथकालभैरवं भजे ॥ ६॥
अट्टहासभिन्नपद्मजाण्डकोशसंततिं दृष्टिपात्तनष्टपापजालमुग्रशासनम् ।
अष्टसिद्धिदायकं कपालमालिकाधरं काशिकापुराधिनाथकालभैरवं भजे ॥ ७॥
भूतसंघनायकं विशालकीर्तिदायकं काशिवासलोकपुण्यपापशोधकं विभुम् ।
नीतिमार्गकोविदं पुरातनं जगत्पतिं काशिकापुराधिनाथकालभैरवं भजे ॥ ८॥
फल श्रुति ॥
कालभैरवाष्टकं पठंति ये मनोहरं ज्ञानमुक्तिसाधनं विचित्रपुण्यवर्धनम् ।
शोकमोहदैन्यलोभकोपतापनाशनं प्रयान्ति कालभैरवांघ्रिसन्निधिं नरा ध्रुवम् ॥
इति श्री कालभैरवाष्टकं संपूर्णम् ॥

Saturday, 5 August 2006

श्रीराधाकृष्णसहस्त्रनामस्तोत्रम्

श्रीराधाकृष्णसहस्त्रनामस्तोत्रम्

श्रीराधाकृष्णसहस्त्रनामस्तोत्रम्
ध्यानम्
स्वभावतोऽपास्तसमस्तदोष – मशेषकल्याणगुणैकराशिम् ।
व्यूहाङ्गिनं ब्रह्म परं वरेण्यं ध्यायेम कृष्णं कमलेक्षणं हरिम् ॥
अङ्गे तु वामे वृषभानुजां मुदा विराजमानामनुरूपसौभगाम् ।
सखीसहस्त्रैः परिसेवितां सदा स्मरेम देवीं सकलेष्टकामदाम् ॥
सनत्कुमार उवाच
ततस्त्त्वं नारद पुनः पृष्टवान् वै सदाशिवम् ।
नाम्नां सहस्त्रं तच्चापि प्रोक्तवांस्तच्छृणुष्व मे ।
ध्यात्वा वृन्दावने रम्ये यमुनातीरसंगतम् ॥
कल्पवृक्षं समाश्रित्य तिष्ठन्तं राधिकायुतम् ।
पठेन्नामसहस्त्रं तु युगलाख्यं महामुने ॥
स्तोत्रम् 
देवकीनन्दनः शौरिर्वासुदेवो बलानुजः ।
गदाग्रजः कंसमोहः कंससेवकमोहनः ॥१॥
भिन्नार्गलो भिन्नलोहः पितृबाह्यः पितृस्तुतः ।
मातृस्तुतः शिवध्येयो यमुनाजलभेदनः ॥२॥
व्रजवासी व्रजानन्दी नन्दबालो दयानिधिः ।
लीलाबालः पद्मनेत्रो गोकुलोत्सव ईश्वरः ॥३॥
गोपिकानन्दनः कृष्णो गोपानन्दः सतां गतिः ।
बकप्राणहरो विष्णुर्बकमुक्तिप्रदो हरिः ॥४॥
बलदोलाशयशयः श्यामलः सर्वसुन्दरः ।
पद्मनाभो हृषीकेश क्रीडामनुजबालकः ॥५॥
लीलाविध्वस्तशकटो वेदमन्त्राभिषेचितः ।
यशोदानन्दनः कान्तो मुनिकोटिनिषेवितः ॥६॥
नित्यं मधुवनावासी वैकुण्ठः सम्भवः क्रतुः ।
रमापतिर्यदुपतिर्मुरारिर्मधुसूदनः ॥७॥
माधवो मानहारी च श्रीपतिर्भूधरः प्रभुः ।
बृहद्वनमहालीलो नन्दसूनुर्महासनः ॥८॥
तृणावर्तप्राणहारी यशोदाविस्मयप्रदः ।
त्रैलोक्यवक्त्रः पद्माक्षः पद्महस्तः प्रियङ्करः ॥९॥
ब्रह्मण्यो धर्मगोप्ता च भूपतिः श्रीधरः स्वराट् ।
अजाध्यक्षः शिवाध्यक्षो धर्माध्यक्षो महेश्वरः ॥१०॥
वेदान्तवेद्यो ब्रह्मस्थः प्रजापतिरमोघदृक् ।
गोपीकरावलम्बी च गोपबालकसुप्रियः ॥११॥
बलानुयायी बलवान् श्रीदामप्रिय आत्मवान् ।
गोपीगृहाङ्गणरतिर्भद्रः सुश्लोकमङ्गलः ॥१२॥
नवनीतहरो बालो नवनीतप्रियाशनः ।
बालवृन्दी मर्कवृन्दी चकिताक्षः पलायितः ॥१३॥
यशोदातर्जितः कम्पी मायारुदितशोभनः ।
दामोदरोऽप्रमेयात्मा दयालुर्भक्तवत्सलः ॥१४॥
सुबद्धोलूखलो नम्रशिरा गोपीकदर्थितः ।
वृक्षभङ्गी शोकभङ्गी धनदात्मजमोक्षणः ॥१५॥
देवर्षिवचनश्‍लाघी भक्तवात्सल्यसागरः ।
व्रजकोलाहलकरो व्रजानन्दविवर्धनः ॥१६॥
गोपात्मा प्रेरकः साक्षी वृन्दावननिवासकृत् ।
वत्सपालो वत्सपतिर्गोपदारकमण्डनः ॥१७॥
बालक्रीडो बालरतिर्बालकः कनकाङ्गदी ।
पीताम्बरो हेममाली मणिमुक्ताविभूषणः ॥१८॥
किङ्किणीकटकी सूत्री नूपुरी मुद्रिकान्वितः ।
वत्सासुरपतिध्वंसी बकासुरविनाशनः ॥१९॥
अघासुरविनाशी च विनिद्रीकृतबालकः ।
आद्य आत्मप्रदः सङ्गी यमुनातीरभोजनः ॥२०॥
गोपालमण्डलीमध्यः सर्वगोपालभूषणः ।
कृतहस्ततलग्रासो व्यञ्जनाश्रितशाखिकः ॥२१॥
कृतबाहुश्रृङ्गयष्टिर्गुञ्जालंकृतकण्ठकः ।
मयूरपिच्छमुकुटो वनमालविभूषितः ॥२२॥
गैरिकाचित्रितवपुर्नवमेघवपुः स्मरः ।
कोटिकन्दर्पलावण्यो लसन्मकरकुण्डलः ॥२३॥
आजानुबाहुर्भगवान् निद्रारहितलोचनः ।
कोटिसागरगाम्भीर्यः कालकालः सदाशिवः ॥२४॥
विरञ्चिमोहनवपुर्गोपवत्सवपुर्धरः ।
ब्रह्माण्डकोटिजनको ब्रह्ममोहविनाशकः ॥२५॥
ब्रह्मा ब्रह्मेडितः स्वामी शक्रदर्पादिनाशनः ।
गिरिपूजोपदेष्टा च धृतगोवर्धनाचलः ॥२६॥
पुरन्दरेडितः पूज्यः कामधेनुप्रपूजितः ।
सर्वतीर्थाभिषिक्तश्च गोविन्दो गोपरक्षकः ॥२७॥
कालियार्तिकरः क्रूरो नागपत्नीडितो विराट् ।
धेनुकारिः प्रलम्बारिर्वृषासुरविमर्दनः ॥२८॥
मयासुरात्मजध्वंसी केशिकण्ठविदारकः ।
गोपगोप्ता धेनुगोप्ता दावाग्निपरिशोषकः ॥२९॥
गोपकन्यावस्त्रहारी गोपकन्यावरप्रदः ।
यज्ञपत्‍न्यन्नभोजी च मुनिमानापहारकः ॥३०॥
जलेशमानमथनो नन्दगोपालजीवनः ।
गन्धर्वशापमोक्ता च शङ्खचूडशिरोहरः ॥३१॥
वंशीवटी वेणुवादी गोपीचिन्तापहारकः ।
सर्वगोप्ता समाह्वानः सर्वगोपीमनोरथः ॥३२॥
व्यङ्ग्यधर्मप्रवक्ता च गोपीमण्डलमोहनः ।
रासक्रीडारसास्वादी रसिको राधिकाधवः ॥३३॥
किशोरीप्राणनाथश्च वृषभानुसुताप्रियः ।
सर्वगोपीजनानन्दी गोपीजनविमोहनः ॥३४॥
गोपिकागीतचरितो गोपीनर्तनलालसः ।
गोपीस्कन्धाश्रितकरो गोपिकाचुम्बनप्रियः ॥३५॥
गोपिकामर्जितमुखो गोपीव्यजनवीजितः ।
गोपिकाकेशसंस्कारी गोपिकापुष्पसंस्तरः ॥३६॥
गोपिकाहृदयालम्बी गोपीवहनतत्परः ।
गोपिकामदहारी च गोपिकापरमार्जितः ॥३७॥
गोपिकाकृतसल्लीलो गोपिकासंस्मृतप्रियः ।
गोपिकावन्दितपदो गोपिकावशवर्तनः ॥३८॥
राधापराजितः श्रीमान् निकुञ्जेषु विहारवान् ।
कुञ्जप्रियः कुञ्जवासी वृन्दावनविकासनः ॥३९॥
यमुनाजलसिक्ताङ्गो यमुनासौख्यदायकः ।
शशिसंस्तम्भनः शूरः कामी कामविमोहनः ॥४०॥
कामाद्यः कामनाथश्च काममानसभेदनः ।
कामदः कामरूपश्च कामिनीकामसंचयः ॥४१॥
नित्यक्रीडो महालीलः सर्व सर्वगतस्तथा ।
परमात्मा पराधीशः सर्वकारणकारणः ॥४२॥
गृहीतनारदवचो ह्यक्रूरपरिचिन्तितः ।
अक्रूरवन्दितपदो गोपिकातोषकारकः ॥४३॥
अक्रूरवाक्यसंग्राही मथुरावासकारणः ।
अक्रूरतापशमनो रजकायुःप्रणाशनः ॥४४॥
मथुरानन्ददायी च कंसवस्त्रविलुण्ठनः ।
कंसवस्त्रपरीधानो गोपवस्त्रप्रदायकः ॥४५॥
सुदामगृहगामी च सुदामपरिपूजितः ।
तन्तुवायकसम्प्रीतः कुब्जाचन्दनलेपनः ॥४६॥
कुब्जारूपप्रदो विज्ञो मुकुन्दो विष्टरश्रवाः ।
सर्वज्ञो मथुरालोकी सर्वलोकाभिनन्दनः ॥४७॥
कृपाकटाक्षदर्शी च दैत्यारिर्देवपालकः ।
सर्वदुःखप्रशमनो धनुर्भङ्गी महोत्सवः ॥४८॥
कुवलयापीडहन्ता दन्तस्कन्धबलाग्रणीः ।
कल्परूपधरो धीरो दिव्यवस्त्रानुलेपनः ॥४९॥
मल्लरूपो महाकालः कामरूपी बलान्वितः ।
कंसत्रासकरो भीमो मुष्टिकान्तश्च कंसहा ॥५०॥
चाणूरघ्नो भयहरः शलारिस्तोशलान्तकः ।
वैकुण्ठवासी कंसारिः सर्वदुष्टनिषूदनः ॥५१॥
देवदुन्दुभिनिर्घोषी पितृशोकनिवारणः ।
यादवेन्द्र सतां नाथो यादवारिप्रमर्दनः ॥५२॥
शौरिशोकविनाशी च देवकीतापनाशनः ।
उग्रसेनपरित्राता उग्रसेनाभिपूजितः ॥५३॥
उग्रसेनाभिषेकी च उग्रसेनदयापरः ।
सर्वसात्वतसाक्षी च यदूनामभिनन्दनः ॥५४॥
सर्वमाथुरसंसेव्यः करुणो भक्तबान्धवः ।
सर्वगोपालधनदो गोपीगोपाललालसः ॥५५॥
शौरिदत्तोपवीती च उग्रसेनदयाकरः ।
गुरुभक्तो ब्रह्मचारी निगमाध्ययने रतः ॥५६॥
संकर्षणसहाध्यायी सुदामसुहृदेव च ।
विद्यानिधिः कलाकोशो मृतपुत्रप्रदस्तथा ॥५७॥
चक्री पाञ्चजनी चैव सर्वनारकिमोचनः ।
यमार्चितः परो देवो नामोच्चारवशोऽच्युतः ॥५८॥
कुब्जाविलासी सुभगो दीनबन्धुरनूपमः ।
अक्रूरगृहगोप्ता च प्रतिज्ञापालकः शुभः ॥५९॥
जरासंधजयी विद्वान् यवनान्तो द्विजाश्रयः ।
मुचुकुन्दप्रियकरो जरासंधपलायितः ॥६०॥
द्वारकाजनको गूढो ब्रह्मण्यः सत्यसंगरः ।
लीलाधरः प्रियकरो विश्वकर्मा यशःप्रदः ॥६१॥
रुक्मिणीप्रियसंदेशो रुक्मशोकविवर्धनः ।
चैद्यशोकालयः श्रेष्ठो दुष्टराजन्यनाशनः ॥६२॥
रुक्मिवैरूप्यकरणो रुक्मिणीवचने रतः ।
बलभद्रवचोग्राही मुक्तरुक्मी जनार्दनः ॥६३॥
रुक्मिणीप्राणनाथश्च सत्यभामापतिः स्वयम् ।
भक्तपक्षी भक्तिवश्यो ह्यक्रूरमणिदायकः ॥६४॥
शतधन्वाप्राणहारी ऋक्षराजसुताप्रियः ।
सत्राजित्तनयाकन्तो मित्रविन्दापहारकः ॥६५॥
सत्यापतिर्लक्ष्मणाजित्पूज्यो भद्राप्रियङ्करः ।
नरकासुरघाती च लीलाकन्याहरो जयी ॥६६॥
मुरारिर्मदनेशोऽपि धरित्रीदुःखनाशनः ।
वैनतेयी स्वर्गगामी अदित्यै कुण्डलप्रदः ॥६७॥
इन्द्रर्चितो रमाकान्तो वज्रिभार्याप्रपूजितः ।
पारिजातापहारी च शक्रमानापहारकः ॥६८॥
प्रद्युम्नजनकः साम्बतातो बहुसुतो विधुः ।
गर्गाचार्यः सत्यगतिर्धर्माधारो धराधरः ॥६९॥
द्वारकामण्डनः श्‍लोक्यः सुश्‍लोको निगमालयः ।
पौण्ड्रकप्राणहारी च काशीराजशिरोहरः ॥७०॥
अवैष्णवविप्रदाही सुदक्षिणभयावहः ।
जरासंधविदारी च धर्मनन्दनयज्ञकृत् ॥७१॥
शिशुपालशिरश्छेदी दन्तवक्त्रविनाशनः ।
विदूरथान्तकः श्रीशः श्रीदो द्विविदनाशनः ॥७२॥
रुक्मिणीमानहारी च रुक्मिणीमानवर्धनः ।
देवर्षिशापहर्ता च द्रौपदीवाक्यपालकः ॥७३॥
दुर्वासाभयहारी च पाञ्चालीस्मरणागतः ।
पार्थदूतः पार्थमन्त्री पार्थदुःखौघनाशनः ॥७४॥
पार्थमानापहारी च पार्थजीवनदायकः ।
पाञ्चालीवस्त्रदाता च विश्वपालकपालकः ॥७५॥
श्चेताश्वसारथिः सत्यः सत्यसाध्यो भयापहः ।
सत्यसन्धः सत्यरतिः सत्यप्रिय उदारधीः ॥७६॥
महासेनजयी चैव शिवसैन्यविनाशनः ।
बाणसुरभुजच्छेत्ता बाणबाहुवरप्रदः ॥७७॥
तार्क्ष्यमानापहारी च तार्क्ष्यतेजोविवर्धनः ।
रामस्वरूपधारी च सत्यभामामुदावहः ॥७८॥
रत्नाकरजलक्रीडो व्रजलीलाप्रदर्शकः ।
स्वप्रतिज्ञापरिध्वंसी भीष्माज्ञापरिपालकः ॥७९॥
वीरायुधहरः कालः कालिकेशो महाबलः ।
बर्बरीकशिरोहारी बर्बरीकशिरःप्रदः ॥८०॥
धर्मपुत्रजयी शूरदुर्योधनमदान्तकः ।
गोपिकाप्रीतिनिर्बन्धनित्यक्रीडो व्रजेश्वरः ॥८१॥
राधाकुण्डरतिर्धन्यः सदान्दोलसमाश्रितः ।
सदा मधुवनानन्दी सदा वृन्दावनप्रियः ॥८२॥
अशोकवनसंनद्धः सदा तिलकसङ्गतः ।
सदा गोवर्धनरतिः सदा गोकुलवल्लभः ॥८३॥
भाण्डीरवटसंवासी नित्यं वंशीवटस्थितः ।
नन्दग्रामकृतावासो वृषभानुगृहप्रियः ॥८४॥
गृहीतकामिनीरूपो नित्यं रासविलासकृत् ।
वल्लवीजनसंगोप्ता वल्लवीजनवल्लभः ॥८५॥
देवशर्मकृपाकर्ता कल्पपादपसंस्थितः ।
शिलानुगन्धनिलयः पादचारी घनच्छविः ॥८६॥
अतसीकुसुमप्रख्यः सदा लक्ष्मीकृपाकरः ।
त्रिपुरारिप्रियकरो ह्युग्रधन्वापराजितः ॥८७॥
षड्‍धुरध्वंसकर्ता च निकुम्भप्राणहारकः ।
वज्रनाभपुरध्वंसी पौण्ड्रकप्राणहारकः ॥८८॥
बहुलाश्वप्रीतिकर्ता द्विजवर्यप्रियङ्करः ।
शिवसंकटहारी च वृकासुरविनाशनः ॥८९॥
भृगुसत्कारकारी च शिवसात्त्विकताप्रदः ।
गोकर्णपूजकः साम्बकुष्ठविध्वंसकारणः ॥९०॥
वेदस्तुतो वेदवेत्ता यदुवंशविवर्धनः ।
यदुवंशविनाशी च उद्धवोद्धारकारकः ॥९१॥
राधा च राधिका चैव आनन्दा वृषभानुजा ।
वृन्दावनेश्वरी पुण्या कृष्णमानसहारिणी ॥९२॥
प्रगल्भा चतुरा कामा कामिनी हरिमोहिनी ।
ललिता मधुरा माध्वी किशोरी कनकप्रभा ॥९३॥
जितचन्द्रा जितमृगा जितसिंहा जितद्विपा ।
जितरम्भा जितपिका गोविन्दहृदयोद्भवा ॥९४॥
जितबिम्बा जितशुका जितपद्मा कुमारिका ।
श्रीकृष्णाकर्षणा देवी नित्यं युग्मस्वरूपिणी ॥९५॥
नित्यं विहारिणी कान्ता रसिका कृष्णवल्लभा ।
आमोदिनी मोदवती नन्दनन्दनभूषिता ॥९६॥
दिव्याम्बरा दिव्यहारा मुक्तामणिविभूषिता ।
कुञ्जप्रिया कुञ्जवासा कुञ्जनायकनायिका ॥९७॥
चारुरूपा चारुवक्त्रा चारुहेमाङ्गदा शुभा ।
श्रीकृष्णवेणुसङ्गीता मुरलीहारिणी शिवा ॥९८॥
भद्रा भगवती शान्ता कुमुदा सुन्दरी प्रिया ।
कृष्णक्रीडा कृष्णरतिः श्रीकृष्णसहचारिणी ॥९९॥
वंशीवटप्रियस्थाना युग्मायुग्मस्वरूपिणी ।
भाण्डीरवासिनी शुभ्रा गोपीनाथप्रिया सखी ॥१००॥
श्रुतिनिःश्वसिता दिव्या गोविन्दरसदायिनी ।
श्रीकृष्णप्रार्थनीशाना महानन्दप्रदायिनी ॥१०१॥
वैकुण्ठजनसंसेव्या कोटिलक्ष्मीसुखावहा ।
कोटिकन्दर्पलावण्या रतिकोटिरतिप्रदा ॥१०२॥
भक्तिग्राह्मा भक्तिरूपा लावण्यसरसी उमा ।
ब्रह्मरुद्रादिसंराध्या नित्यं कौतूहलान्विता ॥१०३॥
नित्यलीला नित्यकामा नित्यश्रृङ्गारभूषिता ।
नित्यवृन्दावनरसा नन्दनन्दनसंयुता ॥१०४॥
गोपिकामण्डलीयुक्ता नित्यं गोपालसंगता ।
गोरसक्षेपणी शूरा सानन्दानन्ददायिनी ॥१०५॥
महालीलाप्रकृष्टा च नागरी नगचारिणी ।
नित्यमाघूर्णिता पूर्णा कस्तूरीतिलकान्विता ॥१०६॥
पद्मा श्यामा मृगाक्षी च सिद्धिरूपा रसावहा ।
कोटिचन्द्रानना गौरी कोटिकोकिलसुस्वरा ॥१०७॥
शीलसौन्दर्यनिलया नन्दनन्दनलालिता ।
अशोकवनसंवासा भाण्डीरवनसंगता ॥१०८॥
कल्पद्रुमतलाविष्टा कृष्णा विश्वा हरिप्रिया ।
अजागम्या भवागम्या गोवर्धनकृतालया ॥१०९॥
यमुनातीरनिलया शश्वद्गोविन्दजल्पिनी ।
शश्वन्मानवती स्निग्धा श्रीकृष्णपरिवन्दिता ॥११०॥
कृष्णस्तुता कृष्णवृता श्रीकृष्णहृदयालया ।
देवद्रुमफला सेव्या वृन्दावनरसालया ॥१११॥
कोटितीर्थमयी सत्या कोटितीर्थफलप्रदा ।
कोटियोगसुदुष्प्राप्या कोटियज्ञदुराश्रया ॥११२॥
मनसा शशिलेखा च श्रीकोटिसुभगाऽनघा ।
कोटिमुक्तसुखा सौम्या लक्ष्मीकोटिविलासिनी ॥११३॥
तिलोत्तमा त्रिकालस्था त्रिकालज्ञाप्यधीश्वरी ।
त्रिवेदज्ञा त्रिलोकज्ञा तुरीयान्तनिवासिनी ॥११४॥
दुर्गाराध्या रमाराध्या विश्वाराध्या चिदात्मिका ।
देवाराध्या पराराध्या ब्रह्माराध्या परात्मिका ॥११५॥
शिवाराध्या प्रेमसाध्या भक्ताराध्या रसात्मिका ।
कृष्णप्राणार्पिणी भामा शुद्धप्रेमविलासिनी ॥११६॥
कृष्णाराध्या भक्तिसाध्या भक्तवृन्दनिषेविता ।
विश्वाधारा कृपाधारा जीवाधारातिनायिका ॥११७॥
शुद्धप्रेममयी लज्जा नित्यसिद्धा शिरोमणिः।
दिव्यरूपा दिव्यभोगा दिव्यवेषा मुदान्विता ॥११८॥
दिव्याङ्गनावृन्दसारा नित्यनूतनयौवना ।
परब्रह्मावृता ध्येया महारूपा महोज्ज्वला ॥११९॥
कोटिसूर्यप्रभा कोटिचन्द्रबिम्बाधिकच्छविः ।
कोमलामृतवागाद्या वेदाद्या वेददुर्लभा ॥१२०॥
कृष्णासक्ता कृष्णभक्ता चन्द्रवलिनिषेविता ।
कलाषोडशसम्पूर्णा कृष्णदेहार्धधारिणी ॥१२१॥
कृष्णबुद्धिः कृष्णसारा कृष्णरूपविहारिणी ।
कृष्णकान्ता कृष्णधना कृष्णमोहनकारिणी ॥१२२॥
कृष्णदृष्टिः कृष्णगोत्री कृष्णदेवी कुलोद्वहा ।
सर्वभूतस्थितावात्मा सर्वलोकनमस्कृता ॥१२३॥
कृष्णदात्री प्रेमधात्री स्वर्णगात्री मनोरमा ।
नगधात्री यशोदात्री महादेवी शुभङ्करी ॥१२४॥
श्रीशेषदेवजननी अवतारगणप्रसूः ।
उत्पलाङ्कारविन्दाङ्का प्रासादाङ्दाद्वितीयका ॥१२५॥
रथाङ्का कुञ्जराङ्का च कुण्डलाङ्कपदस्थिता ।
छत्राङ्का विद्युदङ्का च पुष्पमालाङ्कितापि च ॥१२६॥
दण्डाङ्का मुकुटाङ्का च पूर्णचन्द्रा शुकाङ्किता ।
कृष्णान्नाहारपाका च वृन्दाकुञ्जविहारिणी ॥१२७॥
कृष्णप्रबोधनकरी कृष्णशेषान्नभोजिनी ।
पद्मकेसरमध्यस्था सङ्गीतागमवेदिनी ॥१२८॥
कोटिकल्पान्तभ्रूभङ्गा अप्राप्तप्रलयाच्युता ।
सर्वसत्त्वनिधिः पद्मशङ्खादिनिधिसेविता ॥१२९॥
अणिमादिगुणैश्वर्या देववृन्दविमोहिनी ।
सर्वानन्दप्रदा सर्वा सुवर्णलतिकाकृतिः ॥१३०॥
कृष्णाभिसारसंकेता मालिनी नृत्यपण्डिता ।
गोपीसिन्धुसकाशाह्वा गोपमण्डपशोभिनी ॥१३१॥
श्रीकृष्णप्रीतिदा भीता प्रत्यङ्गपुलकाञ्चिता ।
श्रीकृष्णालिंगनरता गोविन्दविरहाक्षमा ॥१३२॥
अनन्तगुणसम्पन्ना कृष्णकीर्तनलालसा ।
बीजत्रयमयीमूर्तिः कृष्णानुग्रहवाञ्छिता ॥१३३॥
विमलादिनिषेव्या च ललिताद्यर्चिता सती ।
पद्मवृन्दस्थिता हृष्टा त्रिपुरापरिसेविता ॥१३४॥
वृन्तावत्यर्चिता श्रद्धा दुर्ज्ञेया भक्तवल्लभा ।
दुर्लभा सान्द्रसौख्यात्मा श्रेयोहेतुः सुभोगदा ॥१३५॥
सारङ्गा शारदा बोधा सद्‍वृन्दावनचारिणी ।
ब्रह्मानन्दा चिदानन्दा ध्यानानन्दार्धमात्रिका ॥१३६॥
गन्धर्वा सुरतज्ञा च गोविन्दप्राणसङ्गमा ।
कृष्णाङ्गभूषणा रत्नभूषणा स्वर्णभूषिता ॥१३७॥
श्रीकृष्णहृदयावासा मुक्ताकनकनासिका ।
सद्रत्नकङ्कणयुता श्रीमन्नीलगिरिस्थिता ॥१३८॥
स्वर्णनूपुरसम्पन्ना स्वर्णकिङ्किणिमण्डिता ।
अशेषरासकुतुका रम्भोरूस्तनुमध्यमा ॥१३९॥
पराकृतिः परानन्दा परस्वर्गविहारिणी ।
प्रसूनकबरी चित्रा महासिन्दूरसुन्दरी ॥१४०॥
कैशोरवयसा बाला प्रमदाकुलशेखरा ।
कृष्णाधरसुधास्वादा श्यामप्रेमविनोदिनी ॥१४१॥
शिखिपिच्छसच्चूडा स्वर्णचम्पकभूषिता ।
कुंकुमालक्तकस्तूरीमण्डिता चापराजिता ॥१४२॥
हेमहारान्विता पुष्पहाराढ्या रसवत्यपि ।
माधुर्यमधुरा पद्मा पद्महस्ता सुविश्रुता ॥१४३॥
भ्रूभङगाङ्गकोदंडकटाक्षरसंधिनी ।
शेषदेवाशिरस्था च नित्यस्थलविहारिणी ॥१४४॥
कारुण्यजलमध्यस्था नित्यमत्ताधिरोहिणी ।
अष्टभाववती चाष्टनायिका लक्षणान्विता ॥१४५॥
सुनीतिज्ञा श्रुतिज्ञा च सर्वज्ञा दुःखहारिणी ।
रजोगुणेश्वरी चैव शरच्चन्द्रनिभानना ॥१४६॥
केतकीकुसुमाभासा सदा सिन्धुवनस्थिता ।
हेमपुष्पाधिककरा पञ्चशक्तिमयी हिता ॥१४७॥
स्तनकुम्भी नरढ्या च क्षीणापुण्या यशस्विनी ।
वैराजसूर्यजननी श्रीशा भुवनमोहिनी ॥१४८॥
महाशोभा महामाया महाकान्तिर्महास्मृतिः ।
महामोहा महाविद्या महाकीर्तिर्महारतिः ॥१४९॥
महाधैर्या महावीर्या महाशक्तिर्महाद्युतिः ।
महागौरी महासम्पन्महाभोगविलासिनी ॥१५०॥
समया भक्तिदाशोका वात्सल्यरसदायिनी ।
सुहद्भक्तिप्रदा स्वच्छा माधुर्यरसवर्षिणी ॥१५१॥
भावभक्तिप्रदा शुद्भप्रेमभक्तिविधायिनी ।
गोपरामभिरामा च क्रिडारामा परेश्वरी ॥१५२॥
नित्यरामा चात्मरामा कृष्णरामा रमेश्वरी ।
एकानेकजगद्‍व्याप्ता विश्वलीलाप्रकाशिनी ॥१५३॥
सरस्वतीशा दुर्गेशा जगदीशा जगद्विधिः ।
विष्णुवंशनिवासा च विष्णुवंशसमुद्भवा ॥१५४॥
विष्णुवंशस्तुता कर्त्री विष्णुवंशावनी सदा ।
आरामस्था वनस्था च सूर्यपुत्र्यवगाहिनी ॥१५५॥
प्रीतिस्था नित्ययन्त्रस्था गोलोकस्था विभूतिदा ।
स्वानुभूतिस्थिता व्यक्ता सर्वलोकनिवासिनी ॥१५६॥
अमृता ह्यद्भुता श्रीमन्नारायनसमीडिता ।
अक्षरापि च कूटस्था महापुरुषसम्भवा ॥१५७॥
औदार्यभावसाध्या च स्थूलसूक्ष्मातिरूपिणी ।
शिरीषपुष्पमृदुला गाङेगयमुकुरप्रभा ॥१५८॥
नीलोत्पलजिताक्षी च सद्रत्नकबरान्विता ।
प्रेमपर्यङ्कनिलया तेजोमण्डलमध्यगा ॥१५९॥
कृष्णाङ्गगोपनाभेदा लीलावरणनायिका ।
सुधासिन्धुसमुल्लासामृतास्यन्दविधायिनी ॥१६०॥
कृष्णचित्ता रासचिता प्रेमचित्ता हरिप्रिया ।
अचिन्तनगुणग्रामा कृष्णलीला मलापहा ॥१६१॥
राससिन्धुशशाङ्का च रासमण्डलमण्डिनी ।
नतव्रता श्रीहरीच्छासुमूर्तिः सुरवन्दिता ॥१६२॥
गोपीचूडामणिर्गोपीगणेड्या विरजाधिका ।
गोपप्रेष्ठा गोपकन्या गोपनारी सुगोपिका ॥१६३॥
गोपधामा सुदामाम्बा गोपाली गोपमोहिनी ।
गोपभूषा कृष्णभूषा श्रीवृन्दावनचन्द्रिका ॥१६४॥
वीणादिघोषनिरता रासोत्सवविकासिनी ।
कृष्णचेष्टापरिज्ञाता कोटिकन्दर्पमोहिनी ॥१६५॥
श्रीकृष्णगुणगानाढ्या देवसुन्दरिमोहिनी ।
कृष्णचन्द्रमनोज्ञा च कृष्णदेवसहोदरी ॥१६६॥
कृष्णाभिलाषिणी कृष्णप्रेमानुग्रहवाञ्छिनी ।
क्षेमा च मधुरालापा भ्रुवोमाया सुभद्रिका ॥१६७॥
प्रकृतिः परमानन्दा नीपद्रुमतलस्थिता ।
कृपाकटाक्षा बिम्बोष्ठी रम्भा चारुनितम्बिनी ॥१६८॥
स्मरकेलिनिधाना च गण्डताटङ्कमण्डिता ।
हेमाद्रिकान्तिरुचिरा प्रेमाढ्या मदमन्थरा ॥१६९॥
कृष्णचिन्ता प्रेमचिन्ता रतिचिन्ता च कृष्णदा ।
रासचिन्ता भावचिन्ता शुद्धचिन्ता महारसा ॥१७०॥
कृष्णादृष्टित्रुटियुगा दृष्टिपक्ष्मविनिन्दिनी ।
कन्दर्पजननी मुख्या वैकुण्ठगतिदायिनी ॥१७१॥
रासभावा प्रियाश्‍लिष्टा प्रेष्ठा प्रथमनायिका ।
शुद्धा सुधादेहिनी च श्रीरामा रसमञ्जरी ॥१७२॥
सुप्रभावा शुभाचारा स्वर्नदीनर्मदाम्बिका ।
गोमतीचन्द्रभागेड्या सरयूताम्रपर्णिसूः ॥१७३॥
निष्कलङ्कचरित्रा च निर्गुणा च निरञ्जना ।<B>
॥ फलश्रुतिः ॥</B>
एतन्नामसहस्त्रं तु युग्मरूपस्य नारद ॥१७४॥
पठनीयं प्रयत्नेन वृन्दावनरसावहे ।
महापापप्रशमनं वन्ध्यात्वविनिवर्तकम् ॥१७५॥
दारिद्र्यशमनं रोगनाशनं कामदं महत् ।
पापापहं वैरिहरं राधामाधवभक्तिदम् ॥१७६॥
नमस्तस्मै भगवते कृष्णायाकुण्ठमेधसे ।
राधासंगसुधासिन्धौ नमो नित्यविहारिणे ॥१७७॥
राधादेवी जगत्कर्त्री जगत्पालनतत्परा ।
जगल्लयविधात्री च सर्वेशी सर्वसूतिका ॥१७८॥
तस्या नामसहस्त्रं वै मया प्रोक्तं मुनीश्वर ।
भुक्तिमुक्तिप्रदं दिव्यं किं भूयः श्रोतुमिच्छसि ॥१७९॥
॥ इति श्रीबृहन्नारदीयपुराणे पूर्वभागे बृहदुपाख्याने तृतीयपादे श्रीराधाकृष्णसहस्त्रनामास्तोत्रं सम्पूर्णम् ॥

Saturday, 8 July 2006

बुध अष्टोत्तरशतनामवलिः by mukesh bijlwan...........

बुध अष्टोत्तरशतनामवलिः

||बुध अष्टोत्तरशतनामवलिः ||
बुध बीज मन्त्र -
ॐ ब्राँ ब्रीं ब्रौं सः बुधाय नमः ||
ॐ बुधाय नमः ||
ॐ बुधार्चिताय नमः ||
ॐ सौम्याय नमः ||
ॐ सौम्यचित्ताय नमः ||
ॐ शुभप्रदाय नमः ||
ॐ दृढव्रताय नमः ||
ॐ दृढफलाय नमः ||
ॐ श्रुतिजालप्रबोधकाय नमः ||
ॐ सत्यवासाय नमः ||
ॐ सत्यवचसे नमः ||१०
ॐ श्रेयसां पतये नमः ||
ॐ अव्ययाय नमः ||
ॐ सोमजाय नमः ||
ॐ सुखदाय नमः ||
ॐ श्रीमते नमः ||
ॐ सोमवंशप्रदीपकाय नमः ||
ॐ वेदविदे नमः ||
ॐ वेदतत्त्वाशाय नमः ||
ॐ वेदान्तज्ञानभास्कराय नमः ||
ॐ विद्याविचक्षणाय नमः ||२०
ॐ विदुषे नमः ||
ॐ विद्वत्प्रीतिकराय नमः ||
ॐ ऋजवे नमः ||
ॐ विश्वानुकूलसंचाराय नमः ||
ॐ विशेषविनयान्विताय नमः ||
ॐ विविधागमसारज्ञाय नमः ||
ॐ वीर्यवते नमः ||
ॐ विगतज्वराय नमः ||
ॐ त्रिवर्गफलदाय नमः ||
ॐ अनन्ताय नमः ||३०
ॐ त्रिदशाधिपपूजिताय नमः ||
ॐ बुद्धिमते नमः ||
ॐ बहुशास्त्रज्ञाय नमः ||
ॐ बलिने नमः ||
ॐ बन्धविमोचकाय नमः ||
ॐ वक्रातिवक्रगमनाय नमः ||
ॐ वासवाय नमः ||
ॐ वसुधाधिपाय नमः ||
ॐ प्रसन्नवदनाय नमः ||
ॐ वन्द्याय नमः ||४०
ॐ वरेण्याय नमः ||
ॐ वाग्विलक्षणाय नमः ||
ॐ सत्यवते नमः ||
ॐ सत्यसंकल्पाय नमः ||
ॐ सत्यबन्धवे नमः ||
ॐ सदादराय नमः ||
ॐ सर्वरोगप्रशमनाय नमः ||
ॐ सर्वमृत्युनिवारकाय नमः ||
ॐ वाणिज्यनिपुणाय नमः ||
ॐ वश्याय नमः ||५०
ॐ वाताङ्गाय नमः ||
ॐ वातरोगहृते नमः ||
ॐ स्थूलाय नमः ||
ॐ स्थैर्यगुणाध्यक्षाय नमः ||
ॐ स्थूलसूक्ष्मादिकारणाय नमः ||
ॐ अप्रकाशाय नमः ||
ॐ प्रकाशात्मने नमः ||
ॐ घनाय नमः ||
ॐ गगनभूषणाय नमः ||
ॐ विधिस्तुत्याय नमः ||६०
ॐ विशालाक्षाय नमः ||
ॐ विद्वज्जनमनोहराय नमः ||
ॐ चारुशीलाय नमः ||
ॐ स्वप्रकाशाय नमः ||
ॐ चपलाय नमः ||
ॐ जितेन्द्रियाय नमः ||
ॐ उदङ्मुखाय नमः ||
ॐ मखासक्ताय नमः ||
ॐ मगधाधिपतये नमः ||
ॐ हरये नमः ||७०
ॐ सौम्यवत्सरसंजाताय नमः ||
ॐ सोमप्रियकराय नमः ||
ॐ महते नमः ||
ॐ सिंहाधिरूढाय नमः ||
ॐ सर्वज्ञाय नमः ||
ॐ शिखिवर्णाय नमः ||
ॐ शिवंकराय नमः ||
ॐ पीताम्बराय नमः ||
ॐ पीतवपुषे नमः ||
ॐ पीतच्छत्रध्वजाङ्किताय नमः ||८०
ॐ खड्गचर्मधराय नमः ||
ॐ कार्यकर्त्रे नमः ||
ॐ कलुषहारकाय नमः ||
ॐ आत्रेयगोत्रजाय नमः ||
ॐ अत्यन्तविनयाय नमः ||
ॐ विश्वपवनाय नमः ||
ॐ चाम्पेयपुष्पसंकाशाय नमः ||
ॐ चारणाय नमः ||
ॐ चारुभूषणाय नमः ||
ॐ वीतरागाय नमः ||९०
ॐ वीतभयाय नमः ||
ॐ विशुद्धकनकप्रभाय नमः ||
ॐ बन्धुप्रियाय नमः ||
ॐ बन्धुयुक्ताय नमः ||
ॐ वनमण्डलसंश्रिताय नमः ||
ॐ अर्केशाननिवासस्थाय नमः ||
ॐ तर्कशास्त्रविशारदाय नमः ||
ॐ प्रशान्ताय नमः ||
ॐ प्रीतिसंयुक्ताय नमः ||
ॐ प्रियकृते नमः ||१००
ॐ प्रियभूषणाय नमः ||
ॐ मेधाविने नमः ||
ॐ माधवसक्ताय नमः ||
ॐ मिथुनाधिपतये नमः ||
ॐ सुधिये नमः ||
ॐ कन्याराशिप्रियाय नमः ||
ॐ कामप्रदाय नमः ||
ॐ घनफलाश्रयाय नमः ||
||इति बुध अष्टोत्तरशतनामावलिः सम्पूर्णम् ||
jsr...............

Friday, 24 March 2006

गणपति अथर्वशीर्ष

‘गणपति अथर्वशीर्ष

अथर्वशीर्ष की परम्परा में ‘गणपति अथर्वशीर्ष’ का विशेष महत्त्व है। प्रायः प्रत्येक मांगलिक कार्यों में गणपति-पूजन के अनन्तर प्रार्थना रुप में इसके पाठ की परम्परा है। यह भगवान् गणपति का वैदिक-स्तवन है। इसका पाठ करने वाला किसी प्रकार के विघ्न से बाधित न होता हुआ महापातकों से मुक्त हो जाता है। इसी क्रम में इस ‘गणपति-सूक्त’ से इस ब्लाग का शुभारम्भ किया जा रहा है। ईश्वर मंगल करे।
॥ श्री गणपत्यथर्वशीर्ष ॥
॥ शान्ति पाठ ॥
ॐ भद्रं कर्णेभिः शृणुयाम देवाः । भद्रं पश्येमाक्षभिर्यजत्राः ॥
स्थिरैरङ्गैस्तुष्टुवांसस्तनूभिः । व्यशेम देवहितं यदायुः ॥
ॐ स्वस्ति न इन्द्रो वृद्धश्रवाः । स्वस्ति नः पूषा विश्ववेदाः ॥
स्वस्तिनस्तार्क्ष्यो अरिष्टनेमिः । स्वस्ति नो बृहस्पतिर्दधातु ॥
ॐ तन्मामवतु तद् वक्तारमवतु अवतु माम् अवतु वक्तारम्
ॐ शांतिः । शांतिः ॥ शांतिः॥।
॥ उपनिषत् ॥
॥हरिः ॐ नमस्ते गणपतये ॥
त्वमेव प्रत्यक्षं तत्त्वमसि। त्वमेव केवलं कर्ताऽसि। त्वमेव केवलं धर्ताऽसि। त्वमेव केवलं हर्ताऽसि। त्वमेव सर्वं खल्विदं ब्रह्मासि। त्वं साक्षादात्माऽसि नित्यम् ॥ १॥
गणपति को नमस्कार है, तुम्हीं प्रत्यक्ष तत्त्व हो, तुम्हीं केवल कर्त्ता, तुम्हीं केवल धारणकर्ता और तुम्हीं केवल संहारकर्ता हो, तुम्हीं केवल समस्त विश्वरुप ब्रह्म हो और तुम्हीं साक्षात् नित्य आत्मा हो।
॥ स्वरूप तत्त्व ॥
ऋतं वच्मि (वदिष्यामि)॥ सत्यं वच्मि (वदिष्यामि)॥ २॥
यथार्थ कहता हूँ। सत्य कहता हूँ।
अव त्वं माम् । अव वक्तारम् । अव श्रोतारम् । अव दातारम् । अव धातारम् । अवानूचानमव शिष्यम् । अव पश्चात्तात् । अव पुरस्तात् । अवोत्तरात्तात् । अव दक्षिणात्तात् । अव चोर्ध्वात्तात्। अवाधरात्तात्। सर्वतो मां पाहि पाहि समंतात् ॥३॥
तुम मेरी रक्षा करो। वक्ता की रक्षा करो। श्रोता की रक्षा करो। दाता की रक्षा करो। धाता की रक्षा करो। षडंग वेदविद् आचार्य की रक्षा करो। शिष्य रक्षा करो। पीछे से रक्षा करो। आगे से रक्षा करो। उत्तर (वाम भाग) की रक्षा करो। दक्षिण भाग की रक्षा करो। ऊपर से रक्षा करो। नीचे की ओर से रक्षा करो। सर्वतोभाव से मेरी रक्षा करो। सब दिशाओं से मेरी रक्षा करो।
त्वं वाङ्ग्मयस्त्वं चिन्मयः। त्वमानंदमयस्त्वं ब्रह्ममयः। त्वं सच्चिदानंदाद्वितीयोऽसि। त्वं प्रत्यक्षं ब्रह्मासि। त्वं ज्ञानमयो विज्ञानमयोऽसि ॥४॥
तुम वाङ्मय हो, तुम चिन्मय हो। तुम आनन्दमय हो। तुम ब्रह्ममय हो। तुम सच्चिदानन्द अद्वितीय परमात्मा हो। तुम प्रत्यक्ष ब्रह्म हो। तुम ज्ञानमय हो, विज्ञानमय हो।
सर्वं जगदिदं त्वत्तो जायते। सर्वं जगदिदं त्वत्तस्तिष्ठति। सर्वं जगदिदं त्वयि लयमेष्यति। सर्वं जगदिदं त्वयि प्रत्येति। त्वं भूमिरापोऽनलोऽनिलो नभः। त्वं चत्वारि वाक्पदानि ॥ ५॥
यह सारा जगत् तुमसे उत्पन्न होता है। यह सारा जगत् तुमसे सुरक्षित रहता है। यह सारा जगत् तुममें लीन होता है। यह अखिल विश्व तुममें ही प्रतीत होता है। तुम्हीं भूमि, जल, अग्नि और आकाश हो। तुम्हीं परा, पश्यन्ती, मध्यमा और वैखरी चतुर्विध वाक् हो।
त्वं गुणत्रयातीतः त्वमवस्थात्रयातीतः। त्वं देहत्रयातीतः। त्वं कालत्रयातीतः। त्वं मूलाधारः स्थिथोऽसि नित्यम्। त्वं शक्तित्रयात्मकः। त्वां योगिनो ध्यायंति नित्यम्। त्वं ब्रह्मा त्वं विष्णुस्त्वं रुद्रस्त्वं इन्द्रस्त्वं अग्निस्त्वं वायुस्त्वं सूर्यस्त्वं चंद्रमास्त्वं ब्रह्मभूर्भुवःस्वरोम् ॥ ६॥
तुम सत्त्व-रज-तम-इन तीनों गुणों से परे हो। तुम भूत-भविष्य-वर्तमान-इन तीनों कालों से परे हो। तुम स्थूल, सूक्ष्म और कारण- इन तीनों देहों से परे हो। तुम नित्य मूलाधार चक्र में स्थित हो। तुम प्रभु-शक्ति, उत्साह-शक्ति और मन्त्र-शक्ति- इन तीनों शक्तियों से संयुक्त हो। योगिजन नित्य तुम्हारा ध्यान करते हैं। तुम ब्रह्मा हो। तुम विष्णु हो। तुम रुद्र हो। तुम इन्द्र हो। तुम अग्नि हो। तुम वायु हो। तुम सूर्य हो। तुम चन्द्रमा हो। तुम (सगूण) ब्रह्म हो, तुम (निर्गुण) त्रिपाद भूः भुवः स्वः एवं प्रणव हो।
॥ गणेश मंत्र ॥
गणादिं पूर्वमुच्चार्य वर्णादिं तदनंतरम्।अनुस्वारः परतरः। अर्धेन्दुलसितम्। तारेण ऋद्धम्। एतत्तव मनुस्वरूपम्। गकारः पूर्वरूपम्। अकारो मध्यमरूपम्। अनुस्वारश्चान्त्यरूपम्। बिन्दुरुत्तररूपम्। नादः संधानम्। संहितासंधिः। सैषा गणेशविद्या। गणकऋषिः। निचृद्गायत्रीच्छंदः। गणपतिर्देवता। ॐ गं गणपतये नमः ॥ ७॥
‘गण’ शब्द के आदि अक्षर गकार का पहले उच्चारण करके अनन्तर आदिवर्ण अकार का उच्चारण करें। उसके बाद अनुस्वार रहे। इस प्रकार अर्धचन्द्र से पहले शोभित जो ‘गं’ है, वह ओंकार के द्वारा रुद्ध हो, अर्थात् उसके पहले और पीछे भी ओंकार हो। यही तुम्हारे मन्त्र का स्वरुप (ॐ गं ॐ) है। ‘गकार’ पूर्वरुप है, ‘अकार’ मध्यमरुप है, ‘अनुस्वार’ अन्त्य रुप है। ‘बिन्दु’ उत्तररुप है। ‘नाद’ संधान है। संहिता’ संधि है। ऐसी यह गणेशविद्या है। इस विद्या के गणक ऋषि हैं। निचृद् गायत्री छन्द है और गणपति देवता है। मन्त्र है- ‘ॐ गं गणपतये नमः”
॥ गणेश गायत्री ॥
एकदंताय विद्महे वक्रतुण्डाय धीमहि तन्नो दंतिः प्रचोदयात् ॥ ८॥
एकदन्त को हम जानते हैं, वक्रतुण्ड का हम ध्यान करते हैं। दन्ती हमको उस ज्ञान और ध्यान में प्रेरित करें।
॥ गणेश रूप (ध्यानम्)॥
एकदंतं चतुर्हस्तं पाशमंकुशधारिणम् ॥
रदं च वरदं हस्तैर्बिभ्राणं मूषकध्वजम् ॥
रक्तं लंबोदरं शूर्पकर्णकं रक्तवाससम् ॥
रक्तगंधानुलिप्तांगं रक्तपुष्पैः सुपूजितम् ॥
भक्तानुकंपिनं देवं जगत्कारणमच्युतम् ॥
आविर्भूतं च सृष्ट्यादौ प्रकृतेः पुरुषात्परम् ॥
एवं ध्यायति यो नित्यं स योगी योगिनां वरः ॥ ९॥
गणपतिदेव एकदन्त और चर्तुबाहु हैं। वे अपने चार हाथों में पाश, अंकुश, दन्त और वरमुद्रा धारण करते हैं। उनके ध्वज में मूषक का चिह्न है। वे रक्तवर्ण, लम्बोदर, शूर्पकर्ण तथा रक्तवस्त्रधारी हैं। रक्तचन्दन के द्वारा उनके अंग अनुलिप्त हैं। वे रक्तवर्ण के पुष्पों द्वारा सुपूजित हैं। भक्तों की कामना पूर्ण करने वाले, ज्योतिर्मय, जगत् के कारण, अच्युत तथा प्रकृति और पुरुष से परे विद्यमान वे पुरुषोत्तम सृष्टि के आदि में आविर्भूत हुए। इनका जो इस प्रकार नित्य ध्यान करता है, वह योगी योगियों में श्रेष्ठ है।
॥ अष्ट नाम गणपति ॥
नमो व्रातपतये । नमो गणपतये । नमः प्रमथपतये । नमस्तेऽस्तु लंबोदरायैकदंताय । विघ्ननाशिने शिवसुताय । श्रीवरदमूर्तये नमो नमः ॥ १०॥
व्रातपति, गणपति, प्रमथपति, लम्बोदर, एकदन्त, विघ्ननाशक, शिवतनय तथा वरदमूर्ति को नमस्कार है।
॥ फलश्रुति ॥
एतदथर्वशीर्षं योऽधीते ॥ स ब्रह्मभूयाय कल्पते ॥ स सर्वतः सुखमेधते ॥ स सर्व विघ्नैर्नबाध्यते ॥ स पंचमहापापात्प्रमुच्यते ॥ सायमधीयानो दिवसकृतं पापं नाशयति ॥ प्रातरधीयानो रात्रिकृतं पापं नाशयति ॥ सायंप्रातः प्रयुंजानो अपापो भवति ॥ सर्वत्राधीयानोऽपविघ्नो भवति ॥ धर्मार्थकाममोक्षं च विंदति ॥ इदमथर्वशीर्षमशिष्याय न देयम् ॥ यो यदि मोहाद्दास्यति स पापीयान् भवति सहस्रावर्तनात् यं यं काममधीते तं तमनेन साधयेत् ॥ ११॥
इस अथर्वशीर्ष का जो पाठ करता है, वह ब्रह्मीभूत होता है, वह किसी प्रकार के विघ्नों से बाधित नहीं होता, वह सर्वतोभावेन सुखी होता है, वह पंच महापापों से मुक्त हो जाता है। सायंकाल इसका अध्ययन करनेवाला दिन में किये हुए पापों का नाश करता है, प्रातःकाल पाठ करनेवाला रात्रि में किये हुए पापों का नाश करता है। सायं और प्रातःकाल पाठ करने वाला निष्पाप हो जाता है। (सदा) सर्वत्र पाठ करनेवाले सभी विघ्नों से मुक्त हो जाता है एवं धर्म, अर्थ, काम और मोक्ष- इन चारों पुरुषार्थों को प्राप्त करता है। यह अथर्वशीर्ष इसको नहीं देना चाहिये, जो शिष्य न हो। जो मोहवश अशिष्य को उपदेश देगा, वह महापापी होगा। इसकी १००० आवृत्ति करने से उपासक जो कामना करेगा, इसके द्वारा उसे सिद्ध कर लेगा।
(विविध प्रयोग)
अनेन गणपतिमभिषिंचति स वाग्मी भवति ॥ चतुर्थ्यामनश्नन् जपति स विद्यावान् भवति ।
स यशोवान् भवति ॥ इत्यथर्वणवाक्यम् ॥ ब्रह्माद्याचरणं विद्यात् न बिभेति कदाचनेति ॥ १२॥
जो इस मन्त्र के द्वारा श्रीगणपति का अभिषेक करता है, वह वाग्मी हो जाता है। जो चतुर्थी तिथि में उपवास कर जप करता है, वह विद्यावान् हो जाता है। यह अथर्वण-वाक्य है। जो ब्रह्मादि आवरण को जानता है, वह कभी भयभीत नहीं होता।
(यज्ञ प्रयोग)
यो दूर्वांकुरैर्यजति स वैश्रवणोपमो भवति ॥ यो लाजैर्यजति स यशोवान् भवति ॥ स मेधावान् भवति ॥ यो मोदकसहस्रेण यजति स वाञ्छितफलमवाप्नोति ॥ यः साज्यसमिद्भिर्यजति
स सर्वं लभते स सर्वं लभते ॥ १३॥
जो दुर्वांकुरों द्वारा यजन करता है, वह कुबेर के समान हो जाता है। जो लाजा के द्वारा यजन करता है, वह यशस्वी होता है, वह मेधावान होता है। जो सहस्त्र मोदकों के द्वारा यजन करता है, वह मनोवाञ्छित फल प्राप्त करता है। जो घृताक्त समिधा के द्वारा हवन करता है, वह सब कुछ प्राप्त करता है, वह सब कुछ प्राप्त करता है।
(अन्य प्रयोग)
अष्टौ ब्राह्मणान् सम्यग्ग्राहयित्वा सूर्यवर्चस्वी भवति ॥ सूर्यगृहे महानद्यां प्रतिमासंनिधौ वा जप्त्वा सिद्धमंत्रो भवति ॥ महाविघ्नात्प्रमुच्यते ॥ महादोषात्प्रमुच्यते ॥ महापापात् प्रमुच्यते ॥ स सर्वविद्भवति स सर्वविद्भवति ॥ य एवं वेद इत्युपनिषत् ॥ १४॥
जो आठ ब्राह्मणों को इस उपनिषद् का सम्यक ग्रहण करा देता है, वह सूर्य के समान तेज-सम्पन्न होता है। सूर्यग्रहण के समय महानदी में अथवा प्रतिमा के निकट इस उपनिषद् का जप करके साधक सिद्धमन्त्र हो जाता है। सम्पूर्ण महाविघ्नों से मुक्त हो जाता है। महापापों से मुक्त हो जाता है। महादोषों से मुक्त हो जाता है। वह सर्वविद् हो जाता है। जो इस प्रकार जानता है-वह सर्वविद् हो जाता है।
॥ शान्ति मंत्र ॥
ॐ सहनाववतु ॥ सहनौभुनक्तु ॥ सह वीर्यं करवावहै ॥ तेजस्विनावधीतमस्तु मा विद्विषावहै ॥
ॐ भद्रं कर्णेभिः शृणुयाम देवाः । भद्रं पश्येमाक्षभिर्यजत्राः ॥ स्थिरैरंगैस्तुष्टुवांसस्तनूभिः ।
व्यशेम देवहितं यदायुः ॥
ॐ स्वस्ति न इन्द्रो वृद्धश्रवाः । स्वस्ति नः पूषा विश्ववेदाः ॥ स्वस्तिनस्तार्क्ष्यो अरिष्टनेमिः ।
स्वस्ति नो बृहस्पतिर्दधातु ॥
ॐ शांतिः । शांतिः ॥ शांतिः ॥।
॥ इति श्रीगणपत्यथर्वशीर्षं समाप्तम् ॥

Saturday, 3 December 2005

शनैश्चरस्तोत्रम्

शनैश्चरस्तोत्रम्

॥ शनैश्चरस्तोत्रम् ॥
॥ श्रीशनैश्चरस्तोत्रम् ॥
अस्य श्रीशनैश्चरस्तोत्रस्य दशरथ ऋषिः । शनैश्चरो देवता । त्रिष्टुप् छन्दः । । शनैश्चरप्रीत्यर्थ जपे विनियोगः।
दशरथ उवाच –
कोणोऽण्तको रौद्रयमोऽथ बभ्रुः कृष्णः शनिः पिंगलमन्दोसौरिः ।
नित्यं स्मृतो यो हरते च पीडां तस्मै नमः श्रीरविनन्दनाय ॥ १॥
सुरासुराः किंपुरुषोरगेन्द्रा गन्धर्वविद्याधरपन्नगाश्च ।
पीड्यन्ति सर्वे विषमश्थितेन तस्मैइ नमः श्रीरविनन्दनाय ॥ २॥
नरा नरेन्द्राः पशवो मृगेन्द्रा वन्याश्च ये कीटपतंगभृङ्गाः ।
पीड्यन्ति सर्वे विषमश्थितेन तस्मैइ नमः श्रीरविनन्दनाय ॥ ३॥
देशाश्च दुर्गाणि वनाणि यत्र सेनानिवेशाः पुरपत्तनानि ।
पीड्यन्ति सर्वे विषमश्थितेन तस्मैइ नमः श्रीरविनन्दनाय ॥ ४॥
तिलैर्यवैर्माषगुडान्नदानैर्लोहेन नीलाम्बरदानतो वा ।
प्रीणाति मन्त्रैर्निजवसरे च तस्मै नमः श्रीरविनन्दनाय ॥ ५॥
प्रयागकूले यमुनातटे च सरस्वतीपुण्यजले गुहायाम् ।
यो योगिनां ध्यानगतोऽपि सूक्ष्मस्तस्मै नमः श्रीरविनन्दनाय ॥ ६॥
अन्यप्रदेशात्स्वगृहं प्रविष्टस्तदीयवारे स नरः सुखी स्यत् ।
गृहाद् गतो यो न पुनः प्रयाति तस्मै नमः श्रीरविनन्दनाय ॥ ७॥
स्रष्टा स्वयंभूर्भुवनत्रयस्य त्राता हरीशो हरते पिनाकी ।
एकस्त्रिधाअ ऋग्ययजुःसाममूर्तिस्तस्मै नमः श्रीरविनन्दनाय ॥ ८॥
शन्यष्टकं यः प्रयतः प्रभते
नित्यं सुपुत्रैः पशुबान्धवैश्च ।
पठेत्तु सौख्यं भुवि भोगयुक्तः
प्राप्नोति निर्वाणपदं तदन्ते ॥ ९॥
कोणस्थः पिङ्गलो बभ्रुः कृष्णो रौद्रोऽन्तको यमः ।
सौरिः शनैश्चरो मन्दः पिप्पलादेन संस्तुतः ॥ १०॥
एतानि दश नामाअनि प्रातरुत्थाय यः पठेत् ।
शनैश्चरकृता पीडा न कदाचिद्भविष्यति ॥ ११॥
॥ इति श्रीब्रह्माण्डपुराणे श्रीशनैश्चरस्तोत्रं संपूर्णम् ॥
जय श्री राम...........jsr......

Friday, 8 July 2005

श्री नारायण कवच

श्री नारायण कवच

न्यासः- सर्वप्रथम श्रीगणेश जी तथा भगवान नारायण को नमस्कार करके नीचे लिखे प्रकार से न्यास करें।

अगं-न्यासः-
ॐ ॐ नमः — पादयोः ( दाहिने हाँथ की तर्जनी व अंगुठा — इन दोनों को मिलाकर दोनों पैरों का स्पर्श करें)।
ॐ नं नमः — जानुनोः ( दाहिने हाँथ की तर्जनी व अंगुठा — इन दोनों को मिलाकर दोनों घुटनों का स्पर्श करें )।
ॐ मों नमः — ऊर्वोः (दाहिने हाथ की तर्जनी अंगुठा — इन दोनों को मिलाकर दोनों पैरों की जाँघ का स्पर्श करें)।
ॐ नां नमः — उदरे ( दाहिने हाथ की तर्जनी तथा अंगुठा — इन दोनों को मिलाकर पेट का स्पर्श करे )
ॐ रां नमः — हृदि ( मध्यमा-अनामिका-तर्जनी से हृदय का स्पर्श करें )
ॐ यं नमः – उरसि ( मध्यमा- अनामिका-तर्जनी से छाती का स्पर्श करे )
ॐ णां नमः — मुखे ( तर्जनी – अँगुठे के संयोग से मुख का स्पर्श करे )
ॐ यं नमः — शिरसि ( तर्जनी -मध्यमा के संयोग से सिर का स्पर्श करे )
कर-न्यासः-
ॐ ॐ नमः — दक्षिणतर्जन्याम् ( दाहिने अँगुठे से दाहिने तर्जनी के सिरे का स्पर्श करे )
ॐ नं नमः —-दक्षिणमध्यमायाम् ( दाहिने अँगुठे से दाहिने हाथ की मध्यमा अँगुली का ऊपर वाला पोर स्पर्श करे )
ॐ मों नमः —दक्षिणानामिकायाम् ( दहिने अँगुठे से दाहिने हाथ की अनामिका का ऊपरवाला पोर स्पर्श करे )
ॐ भं नमः —-दक्षिणकनिष्ठिकायाम् (दाहिने अँगुठे से हाथ की कनिष्ठिका का ऊपर वाला पोर स्पर्श करे )
ॐ गं नमः —-वामकनिष्ठिकायाम् ( बाँये अँगुठे से बाँये हाथ की कनिष्ठिका का ऊपर वाला पोर स्पर्श करे )
ॐ वं नमः —-वामानिकायाम् ( बाँये अँगुठे से बाँये हाँथ की अनामिका का ऊपरवाला पोर स्पर्श करे )
ॐ तें नमः —-वाममध्यमायाम् ( बाँये अँगुठे से बाये हाथ की मध्यमा का ऊपरवाला पोर स्पर्श करे )
ॐ वां नमः —वामतर्जन्याम् ( बाँये अँगुठे से बाँये हाथ की तर्जनी का ऊपरवाला पोर स्पर्श करे )
ॐ सुं नमः —-दक्षिणाङ्गुष्ठोर्ध्वपर्वणि ( दाहिने हाथ की चारों अँगुलियों से दाहिने हाथ के अँगुठे का ऊपरवाला पोर छुए )
ॐ दें नमः —–दक्षिणाङ्गुष्ठाधः पर्वणि ( दाहिने हाथ की चारों अँगुलियों से दाहिने हाथ के अँगुठे का नीचे वाला पोर छुए )
ॐ वां नमः —–वामाङ्गुष्ठोर्ध्वपर्वणि ( बाँये हाथ की चारों अँगुलियों से बाँये अँगुठे के ऊपरवाला पोर छुए )
ॐ यं नमः ——वामाङ्गुष्ठाधः पर्वणि ( बाँये हाथ की चारों अँगुलियों से बाँये हाथ के अँगुठे का नीचे वाला पोर छुए )
विष्णुषडक्षरन्यासः- 
ॐ ॐ नमः ————हृदये ( तर्जनी – मध्यमा एवं अनामिका से हृदय का स्पर्श करे )
ॐ विं नमः ————-मूर्ध्नि ( तर्जनी मध्यमा के संयोग सिर का स्पर्श करे )
ॐ षं नमः —————भ्रुर्वोर्मध्ये ( तर्जनी-मध्यमा से दोनों भौंहों का स्पर्श करे )
ॐ णं नमः —————शिखायाम् ( अँगुठे से शिखा का स्पर्श करे )
ॐ वें नमः —————नेत्रयोः ( तर्जनी -मध्यमा से दोनों नेत्रों का स्पर्श करे )
ॐ नं नमः —————सर्वसन्धिषु ( तर्जनी – मध्यमा और अनामिका से शरीर के सभी जोड़ों — जैसे – कंधा, घुटना, कोहनी आदि का स्पर्श करे )
ॐ मः अस्त्राय फट् — प्राच्याम् (पूर्व की ओर चुटकी बजाएँ )
ॐ मः अस्त्राय फट् –आग्नेय्याम् ( अग्निकोण में चुटकी बजायें )
ॐ मः अस्त्राय फट् — दक्षिणस्याम् ( दक्षिण की ओर चुटकी बजाएँ )
ॐ मः अस्त्राय फट् — नैऋत्ये (नैऋत्य कोण में चुटकी बजाएँ )
ॐ मः अस्त्राय फट् — प्रतीच्याम्( पश्चिम की ओर चुटकी बजाएँ )
ॐ मः अस्त्राय फट् — वायव्ये ( वायुकोण में चुटकी बजाएँ )
ॐ मः अस्त्राय फट् — उदीच्याम्( उत्तर की ओर चुटकी बजाएँ )
ॐ मः अस्त्राय फट् — ऐशान्याम् (ईशानकोण में चुटकी बजाएँ )
ॐ मः अस्त्राय फट् — ऊर्ध्वायाम् ( ऊपर की ओर चुटकी बजाएँ )
ॐ मः अस्त्राय फट् — अधरायाम् (नीचे की ओर चुटकी बजाएँ )
श्री हरिः
अथ श्रीनारायणकवच 
।।राजोवाच।।
यया गुप्तः सहस्त्राक्षः सवाहान् रिपुसैनिकान्।
क्रीडन्निव विनिर्जित्य त्रिलोक्या बुभुजे श्रियम्।।१
भगवंस्तन्ममाख्याहि वर्म नारायणात्मकम्।
यथाssततायिनः शत्रून् येन गुप्तोsजयन्मृधे।।२
राजा परिक्षित ने पूछाः भगवन् ! देवराज इंद्र ने जिससे सुरक्षित होकर शत्रुओं की चतुरङ्गिणी सेना को खेल-खेल में अनायास ही जीतकर त्रिलोकी की राज लक्ष्मी का उपभोग किया, आप उस नारायण कवच को सुनाइये और यह भी बतलाईये कि उन्होंने उससे सुरक्षित होकर रणभूमि में किस प्रकार आक्रमणकारी शत्रुओं पर विजय प्राप्त की ।।१-२
।।श्रीशुक उवाच।।
वृतः पुरोहितोस्त्वाष्ट्रो महेन्द्रायानुपृच्छते।
नारायणाख्यं वर्माह तदिहैकमनाः शृणु।।३
श्रीशुकदेवजी ने कहाः परीक्षित् ! जब देवताओं ने विश्वरूप को पुरोहित बना लिया, तब देवराज इन्द्र के प्रश्न करने पर विश्वरूप ने नारायण कवच का उपदेश दिया तुम एकाग्रचित्त से उसका श्रवण करो ।।३
विश्वरूप उवाचधौताङ्घ्रिपाणिराचम्य सपवित्र उदङ् मुखः।
कृतस्वाङ्गकरन्यासो मन्त्राभ्यां वाग्यतः शुचिः।।४
नारायणमयं वर्म संनह्येद् भय आगते।
पादयोर्जानुनोरूर्वोरूदरे हृद्यथोरसि।।५
मुखे शिरस्यानुपूर्व्यादोंकारादीनि विन्यसेत्।
ॐ नमो नारायणायेति विपर्ययमथापि वा।।६
विश्वरूप ने कहा – देवराज इन्द्र ! भय का अवसर उपस्थित होने पर नारायण कवच धारण करके अपने शरीर की रक्षा कर लेनी चाहिए उसकी विधि यह है कि पहले हाँथ-पैर धोकर आचमन करे, फिर हाथ में कुश की पवित्री धारण करके उत्तर मुख करके बैठ जाय इसके बाद कवच धारण पर्यंत और कुछ न बोलने का निश्चय करके पवित्रता से “ॐ नमो नारायणाय” और “ॐ नमो भगवते वासुदेवाय” इन मंत्रों के द्वारा हृदयादि अङ्गन्यास तथा अङ्गुष्ठादि करन्यास करे पहले “ॐ नमो नारायणाय” इस अष्टाक्षर मन्त्र के ॐ आदि आठ अक्षरों का क्रमशः पैरों, घुटनों, जाँघों, पेट, हृदय, वक्षःस्थल, मुख और सिर में न्यास करे अथवा पूर्वोक्त मन्त्र के यकार से लेकर ॐ कार तक आठ अक्षरों का सिर से आरम्भ कर उन्हीं आठ अङ्गों में विपरित क्रम से न्यास करे ।।४-६
करन्यासं ततः कुर्याद् द्वादशाक्षरविद्यया।
प्रणवादियकारन्तमङ्गुल्यङ्गुष्ठपर्वसु।।७
तदनन्तर “ॐ नमो भगवते वासुदेवाय” इस द्वादशाक्षर -मन्त्र के ॐ आदि बारह अक्षरों का दायीं तर्जनी से बाँयीं तर्जनी तक दोनों हाँथ की आठ अँगुलियों और दोनों अँगुठों की दो-दो गाठों में न्यास करे।।७
न्यसेद् हृदय ओङ्कारं विकारमनु मूर्धनि।
षकारं तु भ्रुवोर्मध्ये णकारं शिखया दिशेत्।।८
वेकारं नेत्रयोर्युञ्ज्यान्नकारं सर्वसन्धिषु।
मकारमस्त्रमुद्दिश्य मन्त्रमूर्तिर्भवेद् बुधः।।९
सविसर्गं फडन्तं तत् सर्वदिक्षु विनिर्दिशेत्।
ॐ विष्णवे नम इति ।।१०
फिर “ॐ विष्णवे नमः” इस मन्त्र के पहले के पहले अक्षर ‘ॐ’ का हृदय में, ‘वि’ का ब्रह्मरन्ध्र , में ‘ष’ का भौहों के बीच में, ‘ण’ का चोटी में, ‘वे’ का दोनों नेत्रों और ‘न’ का शरीर की सब गाँठों में न्यास करे तदनन्तर ‘ॐ मः अस्त्राय फट्’ कहकर दिग्बन्ध करे इस प्रकर न्यास करने से इस विधि को जानने वाला पुरूष मन्त्रमय हो जाता है ।।८-१०
आत्मानं परमं ध्यायेद ध्येयं षट्शक्तिभिर्युतम्।
विद्यातेजस्तपोमूर्तिमिमं मन्त्रमुदाहरेत ।।११
इसके बाद समग्र ऐश्वर्य, धर्म, यश, लक्ष्मी, ज्ञान और वैराग्य से परिपूर्ण इष्टदेव भगवान् का ध्यान करे और अपने को भी तद् रूप ही चिन्तन करे तत्पश्चात् विद्या, तेज, और तपः स्वरूप इस कवच का पाठ करे ।।११
ॐ हरिर्विदध्यान्मम सर्वरक्षां न्यस्ताङ्घ्रिपद्मः पतगेन्द्रपृष्ठे।
दरारिचर्मासिगदेषुचापाशान् दधानोsष्टगुणोsष्टबाहुः ।।१२
भगवान् श्रीहरि गरूड़जी के पीठ पर अपने चरणकमल रखे हुए हैं, अणिमा आदि आठों सिद्धियाँ उनकी सेवा कर रही हैं आठ हाँथों में शंख, चक्र, ढाल, तलवार, गदा, बाण, धनुष, और पाश (फंदा) धारण किए हुए हैं वे ही ओंकार स्वरूप प्रभु सब प्रकार से सब ओर से मेरी रक्षा करें।।१२
जलेषु मां रक्षतु मत्स्यमूर्तिर्यादोगणेभ्यो वरूणस्य पाशात्।
स्थलेषु मायावटुवामनोsव्यात् त्रिविक्रमः खेऽवतु विश्वरूपः ।।१३
मत्स्यमूर्ति भगवान् जल के भीतर जलजंतुओं से और वरूण के पाश से मेरी रक्षा करें माया से ब्रह्मचारी रूप धारण करने वाले वामन भगवान् स्थल पर और विश्वरूप श्री त्रिविक्रमभगवान् आकाश में मेरी रक्षा करें 13
दुर्गेष्वटव्याजिमुखादिषु प्रभुः पायान्नृसिंहोऽसुरयुथपारिः।
विमुञ्चतो यस्य महाट्टहासं दिशो विनेदुर्न्यपतंश्च गर्भाः ।।१४

जिनके घोर अट्टहास करने पर सब दिशाएँ गूँज उठी थीं और गर्भवती दैत्यपत्नियों के गर्भ गिर गये थे, वे दैत्ययुथपतियों के शत्रु भगवान् नृसिंह किले, जंगल, रणभूमि आदि विकट स्थानों में मेरी रक्षा करें ।।१४
रक्षत्वसौ माध्वनि यज्ञकल्पः स्वदंष्ट्रयोन्नीतधरो वराहः।
रामोऽद्रिकूटेष्वथ विप्रवासे सलक्ष्मणोsव्याद् भरताग्रजोsस्मान् ।।१५
अपनी दाढ़ों पर पृथ्वी को उठा लेने वाले यज्ञमूर्ति वराह भगवान् मार्ग में, परशुराम जी पर्वतों के शिखरों और लक्ष्मणजी के सहित भरत के बड़े भाई भगावन् रामचंद्र प्रवास के समय मेरी रक्षा करें ।।१५
मामुग्रधर्मादखिलात् प्रमादान्नारायणः पातु नरश्च हासात्।
दत्तस्त्वयोगादथ योगनाथः पायाद् गुणेशः कपिलः कर्मबन्धात् ।।१६
भगवान् नारायण मारण – मोहन आदि भयंकर अभिचारों और सब प्रकार के प्रमादों से मेरी रक्षा करें ऋषिश्रेष्ठ नर गर्व से, योगेश्वर भगवान् दत्तात्रेय योग के विघ्नों से और त्रिगुणाधिपति भगवान् कपिल कर्मबन्धन से मेरी रक्षा करें ।।१६
सनत्कुमारो वतु कामदेवाद्धयशीर्षा मां पथि देवहेलनात्।
देवर्षिवर्यः पुरूषार्चनान्तरात् कूर्मो हरिर्मां निरयादशेषात् ।।१७
परमर्षि सनत्कुमार कामदेव से, हयग्रीव भगवान् मार्ग में चलते समय देवमूर्तियों को नमस्कार आदि न करने के अपराध से, देवर्षि नारद सेवापराधों से और भगवान् कच्छप सब प्रकार के नरकों से मेरी रक्षा करें ।।१७
धन्वन्तरिर्भगवान् पात्वपथ्याद् द्वन्द्वाद् भयादृषभो निर्जितात्मा।
यज्ञश्च लोकादवताज्जनान्ताद् बलो गणात् क्रोधवशादहीन्द्रः ।।१८
भगवान् धन्वन्तरि कुपथ्य से, जितेन्द्र भगवान् ऋषभदेव सुख-दुःख आदि भयदायक द्वन्द्वों से, यज्ञ भगवान् लोकापवाद से, बलरामजी मनुष्यकृत कष्टों से और श्रीशेषजी क्रोधवशनामक सर्पों के गणों से मेरी रक्षा करें ।।१८
द्वैपायनो भगवानप्रबोधाद् बुद्धस्तु पाखण्डगणात् प्रमादात्।
कल्किः कले कालमलात् प्रपातु धर्मावनायोरूकृतावतारः ।।१९
भगवान् श्रीकृष्णद्वेपायन व्यासजी अज्ञान से तथा बुद्धदेव पाखण्डियों से और प्रमाद से मेरी रक्षा करें धर्म-रक्षा करने वाले महान अवतार धारण करने वाले भगवान् कल्कि पाप-बहुल कलिकाल के दोषों से मेरी रक्षा करें ।।१९
मां केशवो गदया प्रातरव्याद् गोविन्द आसङ्गवमात्तवेणुः।
नारायण प्राह्ण उदात्तशक्तिर्मध्यन्दिने विष्णुररीन्द्रपाणिः ।।२०
प्रातःकाल भगवान् केशव अपनी गदा लेकर, कुछ दिन चढ़ जाने पर भगवान् गोविन्द अपनी बांसुरी लेकर, दोपहर के पहले भगवान् नारायण अपनी तीक्ष्ण शक्ति लेकर और दोपहर को भगवान् विष्णु चक्रराज सुदर्शन लेकर मेरी रक्षा करें ।।२०
देवोsपराह्णे मधुहोग्रधन्वा सायं त्रिधामावतु माधवो माम्।
दोषे हृषीकेश उतार्धरात्रे निशीथ एकोsवतु पद्मनाभः ।।२१
तीसरे पहर में भगवान् मधुसूदन अपना प्रचण्ड धनुष लेकर मेरी रक्षा करें सांयकाल में ब्रह्मा आदि त्रिमूर्तिधारी माधव, सूर्यास्त के बाद हृषिकेश, अर्धरात्रि के पूर्व तथा अर्ध रात्रि के समय अकेले भगवान् पद्मनाभ मेरी रक्षा करें ।।२१
श्रीवत्सधामापररात्र ईशः प्रत्यूष ईशोऽसिधरो जनार्दनः।
दामोदरोऽव्यादनुसन्ध्यं प्रभाते विश्वेश्वरो भगवान् कालमूर्तिः ।।२२
रात्रि के पिछले प्रहर में श्रीवत्सलाञ्छन श्रीहरि, उषाकाल में खड्गधारी भगवान् जनार्दन, सूर्योदय से पूर्व श्रीदामोदर और सम्पूर्ण सन्ध्याओं में कालमूर्ति भगवान् विश्वेश्वर मेरी रक्षा करें ।।२२
चक्रं युगान्तानलतिग्मनेमि भ्रमत् समन्ताद् भगवत्प्रयुक्तम्।
दन्दग्धि दन्दग्ध्यरिसैन्यमासु कक्षं यथा वातसखो हुताशः ।।२३
सुदर्शन ! आपका आकार चक्र ( रथ के पहिये ) की तरह है आपके किनारे का भाग प्रलयकालीन अग्नि के समान अत्यन्त तीव्र है। आप भगवान् की प्रेरणा से सब ओर घूमते रहते हैं जैसे आग वायु की सहायता से सूखे घास-फूस को जला डालती है, वैसे ही आप हमारी शत्रुसेना को शीघ्र से शीघ्र जला दीजिये, जला दीजिये ।।२३
गदेऽशनिस्पर्शनविस्फुलिङ्गे निष्पिण्ढि निष्पिण्ढ्यजितप्रियासि। कूष्माण्डवैनायकयक्षरक्षोभूतग्रहांश्चूर्णय चूर्णयारीन् ।।२४
कौमुद की गदा ! आपसे छूटने वाली चिनगारियों का स्पर्श वज्र के समान असह्य है आप भगवान् अजित की प्रिया हैं और मैं उनका सेवक हूँ इसलिए आप कूष्माण्ड, विनायक, यक्ष, राक्षस, भूत और प्रेतादि ग्रहों को अभी कुचल डालिये, कुचल डालिये तथा मेरे शत्रुओं को चूर – चूर कर दिजिये ।।२४
त्वं यातुधानप्रमथप्रेतमातृपिशाचविप्रग्रहघोरदृष्टीन्।
दरेन्द्र विद्रावय कृष्णपूरितो भीमस्वनोऽरेर्हृदयानि कम्पयन् ।।२५
शङ्खश्रेष्ठ ! आप भगवान् श्रीकृष्ण के फूँकने से भयंकर शब्द करके मेरे शत्रुओं का दिल दहला दीजिये एवं यातुधान, प्रमथ, प्रेत, मातृका, पिशाच तथा ब्रह्मराक्षस आदि भयावने प्राणियों को यहाँ से तुरन्त भगा दीजिये ।।२५
त्वं तिग्मधारासिवरारिसैन्यमीशप्रयुक्तो मम छिन्धि छिन्धि।
चर्मञ्छतचन्द्र छादय द्विषामघोनां हर पापचक्षुषाम् २६
भगवान् की श्रेष्ठ तलवार ! आपकी धार बहुत तीक्ष्ण है आप भगवान् की प्रेरणा से मेरे शत्रुओं को छिन्न-भिन्न कर दिजिये। भगवान् की प्यारी ढाल ! आपमें सैकड़ों चन्द्राकार मण्डल हैं आप पापदृष्टि पापात्मा शत्रुओं की आँखे बन्द कर दिजिये और उन्हें सदा के लिये अन्धा बना दीजिये ।।२६
यन्नो भयं ग्रहेभ्यो भूत् केतुभ्यो नृभ्य एव च।
सरीसृपेभ्यो दंष्ट्रिभ्यो भूतेभ्योंऽहोभ्य एव वा ।।२७
सर्वाण्येतानि भगन्नामरूपास्त्रकीर्तनात्।
प्रयान्तु संक्षयं सद्यो ये नः श्रेयः प्रतीपकाः ।।२८
सूर्य आदि ग्रह, धूमकेतु (पुच्छल तारे ) आदि केतु, दुष्ट मनुष्य, सर्पादि रेंगने वाले जन्तु, दाढ़ोंवाले हिंसक पशु, भूत-प्रेत आदि तथा पापी प्राणियों से हमें जो-जो भय हो और जो हमारे मङ्गल के विरोधी हों – वे सभी भगावान् के नाम, रूप तथा आयुधों का कीर्तन करने से तत्काल नष्ट हो जायें ।।२७-२८
गरूड़ो भगवान् स्तोत्रस्तोभश्छन्दोमयः प्रभुः।
रक्षत्वशेषकृच्छ्रेभ्यो विष्वक्सेनः स्वनामभिः ।।२९
बृहद्, रथन्तर आदि सामवेदीय स्तोत्रों से जिनकी स्तुति की जाती है, वे वेदमूर्ति भगवान् गरूड़ और विष्वक्सेनजी अपने नामोच्चारण के प्रभाव से हमें सब प्रकार की विपत्तियों से बचायें।।२९
सर्वापद्भ्यो हरेर्नामरूपयानायुधानि नः।
बुद्धिन्द्रियमनः प्राणान् पान्तु पार्षदभूषणाः ।।३०
श्रीहरि के नाम, रूप, वाहन, आयुध और श्रेष्ठ पार्षद हमारी बुद्धि , इन्द्रिय , मन और प्राणों को सब प्रकार की आपत्तियों से बचायें ।।३०
यथा हि भगवानेव वस्तुतः सद्सच्च यत्।
सत्यनानेन नः सर्वे यान्तु नाशमुपाद्रवाः ।।३१
जितना भी कार्य अथवा कारण रूप जगत है, वह वास्तव में भगवान् ही है इस सत्य के प्रभाव से हमारे सारे उपद्रव नष्ट हो जायें ।।३१
यथैकात्म्यानुभावानां विकल्परहितः स्वयम्।
भूषणायुद्धलिङ्गाख्या धत्ते शक्तीः स्वमायया ।।३२
तेनैव सत्यमानेन सर्वज्ञो भगवान् हरिः।
पातु सर्वैः स्वरूपैर्नः सदा सर्वत्र सर्वगः ।।३३
जो लोग ब्रह्म और आत्मा की एकता का अनुभव कर चुके हैं, उनकी दृष्टि में भगवान् का स्वरूप समस्त विकल्पों से रहित है-भेदों से रहित हैं फिर भी वे अपनी माया शक्ति के द्वारा भूषण, आयुध और रूप नामक शक्तियों को धारण करते हैं यह बात निश्चित रूप से सत्य है इस कारण सर्वज्ञ, सर्वव्यापक भगवान् श्रीहरि सदा -सर्वत्र सब स्वरूपों से हमारी रक्षा करें ।।३२-३३
विदिक्षु दिक्षूर्ध्वमधः समन्तादन्तर्बहिर्भगवान् नारसिंहः।
प्रहापयँल्लोकभयं स्वनेन ग्रस्तसमस्ततेजाः ।।३४
जो अपने भयंकर अट्टहास से सब लोगों के भय को भगा देते हैं और अपने तेज से सबका तेज ग्रस लेते हैं, वे भगवान् नृसिंह दिशा -विदिशा में, नीचे -ऊपर, बाहर-भीतर – सब ओर से हमारी रक्षा करें ।।३४
मघवन्निदमाख्यातं वर्म नारयणात्मकम्।
विजेष्यस्यञ्जसा येन दंशितोऽसुरयूथपान् ।।३५
देवराज इन्द्र ! मैने तुम्हें यह नारायण कवच सुना दिया है इस कवच से तुम अपने को सुरक्षित कर लो बस, फिर तुम अनायास ही सब दैत्य – यूथपतियों को जीत कर लोगे ।।३५
एतद् धारयमाणस्तु यं यं पश्यति चक्षुषा।
पदा वा संस्पृशेत् सद्यः साध्वसात् स विमुच्यते ।।३६
इस नारायण कवच को धारण करने वाला पुरूष जिसको भी अपने नेत्रों से देख लेता है अथवा पैर से छू देता है, तत्काल समस्त भयों से से मुक्त हो जाता है 36
न कुतश्चित भयं तस्य विद्यां धारयतो भवेत्।
राजदस्युग्रहादिभ्यो व्याघ्रादिभ्यश्च कर्हिचित् ।।३७
जो इस वैष्णवी विद्या को धारण कर लेता है, उसे राजा, डाकू, प्रेत, पिशाच आदि और बाघ आदि हिंसक जीवों से कभी किसी प्रकार का भय नहीं होता ।।३७
इमां विद्यां पुरा कश्चित् कौशिको धारयन् द्विजः।
योगधारणया स्वाङ्गं जहौ स मरूधन्वनि ।।३८
देवराज! प्राचीनकाल की बात है, एक कौशिक गोत्री ब्राह्मण ने इस विद्या को धारण करके योगधारणा से अपना शरीर मरूभूमि में त्याग दिया ।।३८
तस्योपरि विमानेन गन्धर्वपतिरेकदा।
ययौ चित्ररथः स्त्रीर्भिवृतो यत्र द्विजक्षयः ।।३९
जहाँ उस ब्राह्मण का शरीर पड़ा था, उसके उपर से एक दिन गन्धर्वराज चित्ररथ अपनी स्त्रियों के साथ विमान पर बैठ कर निकले ।।३९
गगनान्न्यपतत् सद्यः सविमानो ह्यवाक् शिराः।
स वालखिल्यवचनादस्थीन्यादाय विस्मितः।
प्रास्य प्राचीसरस्वत्यां स्नात्वा धाम स्वमन्वगात् ।।४०
वहाँ आते ही वे नीचे की ओर सिर किये विमान सहित आकाश से पृथ्वी पर गिर पड़े इस घटना से उनके आश्चर्य की सीमा न रही जब उन्हें बालखिल्य मुनियों ने बतलाया कि यह नारायण कवच धारण करने का प्रभाव है, तब उन्होंने उस ब्राह्मण देव की हड्डियों को ले जाकर पूर्ववाहिनी सरस्वती नदी में प्रवाहित कर दिया और फिर स्नान करके वे अपने लोक को चले गये ।।४०
।।श्रीशुक उवाच।।
य इदं शृणुयात् काले यो धारयति चादृतः।
तं नमस्यन्ति भूतानि मुच्यते सर्वतो भयात् ।।४१
श्रीशुकदेवजी कहते हैं – परिक्षित् जो पुरूष इस नारायण कवच को समय पर सुनता है और जो आदर पूर्वक इसे धारण करता है, उसके सामने सभी प्राणी आदर से झुक जाते हैं और वह सब प्रकार के भयों से मुक्त हो जाता है ।।४१
एतां विद्यामधिगतो विश्वरूपाच्छतक्रतुः।
त्रैलोक्यलक्ष्मीं बुभुजे विनिर्जित्यऽमृधेसुरान् ।।४२
परीक्षित् ! शतक्रतु इन्द्र ने आचार्य विश्वरूपजी से यह वैष्णवी विद्या प्राप्त करके रणभूमि में असुरों को जीत लिया और वे त्रैलोक्यलक्ष्मी का उपभोग करने लगे 42
।।इति श्रीनारायणकवचं सम्पूर्णम्।।
( श्रीमद्भागवत स्कन्ध 6 , अ। 8 )
जय श्री राम.....................सीताराम.....राधेराम.......लक्ष्मीराम,..........श्री राम.......!!!!!

Wednesday, 6 April 2005

चन्द्र अष्टोत्तरशतनामावलिः by mukesh bijlwan... पंडित मुकेश बिजल्वाण

चन्द्र अष्टोत्तरशतनामावलिः

||चन्द्र अष्टोत्तरशतनामावलिः ||
चन्द्र बीज मन्त्र -
ॐ श्राँ श्रीं श्रौं सः चन्द्राय नमः ||
ॐ श्रीमते नमः ||
ॐ शशधराय नमः ||
ॐ चन्द्राय नमः ||
ॐ ताराधीशाय नमः ||
ॐ निशाकराय नमः ||
ॐ सुखनिधये नमः ||
ॐ सदाराध्याय नमः ||
ॐ सत्पतये नमः ||
ॐ साधुपूजिताय नमः ||
ॐ जितेन्द्रियाय नमः ||
ॐ जयोद्योगाय नमः ||
ॐ ज्योतिश्चक्रप्रवर्तकाय नमः ||
ॐ विकर्तनानुजाय नमः ||
ॐ वीराय नमः ||
ॐ विश्वेशाय नमः ||
ॐ विदुशां पतये नमः ||
ॐ दोषकराय नमः ||
ॐ दुष्टदूराय नमः ||
ॐ पुष्टिमते नमः ||
ॐ शिष्टपालकाय नमः ||
ॐ अष्टमूर्तिप्रियाय नमः ||
ॐ अनन्ताय नमः ||
ॐ कष्टदारुकुठरकाय नमः ||
ॐ स्वप्रकाशाय नमः ||
ॐ प्रकाशात्मने नमः ||
ॐ द्युचराय नमः ||
ॐ देवभोजनाय नमः ||
ॐ कलाधराय नमः ||
ॐ कालहेतवे नमः ||
ॐ कामकृते नमः ||
ॐ कामदायकाय नमः ||
ॐ मृत्युसंहारकाय नमः ||
ॐ अमर्त्याय नमः ||
ॐ नित्यानुष्ठानदायकाय नमः ||
ॐ क्षपाकराय नमः ||
ॐ क्षीणपापाय नमः ||
ॐ क्षयवृद्धिसमन्विताय नमः ||
ॐ जैवातृकाय नमः ||
ॐ शुचये नमः ||
ॐ शुभ्राय नमः ||
ॐ जयिने नमः ||
ॐ जयफलप्रदाय नमः ||
ॐ सुधामयाय नमः ||
ॐ सुरस्वामिने नमः ||
ॐ भक्तनामिष्टदायकाय नमः ||
ॐ भुक्तिदाय नमः ||
ॐ मुक्तिदाय नमः ||
ॐ भद्राय नमः ||
ॐ भक्तदारिद्र्यभञ्जनाय नमः ||
ॐ सामगानप्रियाय नमः ||
ॐ सर्वरक्षकाय नमः ||
ॐ सागरोद्भवाय नमः ||
ॐ भयान्तकृते नमः ||
ॐ भक्तिगम्याय नमः ||
ॐ भवबन्धविमोचकाय नमः ||
ॐ जगत्प्रकाशकिरणाय नमः ||
ॐ जगदानन्दकारणाय नमः ||
ॐ निस्सपत्नाय नमः ||
ॐ निराहाराय नमः ||
ॐ निर्विकाराय नमः ||
ॐ निरामयाय नमः ||
ॐ भूच्छयाच्छादिताय नमः ||
ॐ भव्याय नमः ||
ॐ भुवनप्रतिपालकाय नमः ||
ॐ सकलार्तिहराय नमः ||
ॐ सौम्यजनकाय नमः ||
ॐ साधुवन्दिताय नमः ||
ॐ सर्वागमज्ञाय नमः ||
ॐ सर्वज्ञाय नमः ||
ॐ सनकादिमुनिस्तुताय नमः ||
ॐ सितच्छत्रध्वजोपेताय नमः ||
ॐ सिताङ्गाय नमः ||
ॐ सितभूषनाय नमः ||
ॐ श्वेतमाल्याम्बरधराय नमः ||
ॐ श्वेतगन्धानुलेपनाय नमः ||
ॐ दशाश्वरथसंरूढाय नमः ||
ॐ दण्डपानये नमः ||
ॐ धनुर्धराय नमः ||
ॐ कुन्दपुष्पोज्ज्वलाकाराय नमः ||
ॐ नयनाब्जसमुद्भवाय नमः ||
ॐ आत्रेयगोत्रजाय नमः ||
ॐ अत्यन्तविनयाय नमः ||
ॐ प्रियदायकाय नमः ||
ॐ करुणारससंपूर्णाय नमः ||
ॐ कर्कटप्रभवे नमः ||
ॐ अव्ययाय नमः ||
ॐ चतुरश्रासनारूढाय नमः ||
ॐ चतुराय नमः ||
ॐ दिव्यवाहनाय नमः ||
ॐ विवस्वन्मण्डलज्ञेयवसाय नमः ||
ॐ वसुसमृद्धिदाय नमः ||
ॐ महेश्वरप्रियाय नमः ||
ॐ दान्ताय नमः ||
ॐ मेरुगोत्रप्रदक्षिणाय नमः ||
ॐ ग्रहमण्डलमध्यस्थाय नमः ||
ॐ ग्रसितार्काय नमः ||
ॐ ग्रहाधिपाय नमः ||
ॐ द्विजराजाय नमः ||
ॐ द्युतिकलाय नमः ||
ॐ द्विभुजाय नमः ||
ॐ द्विजपूजिताय नमः ||
ॐ औदुम्बरनगावासाय नमः ||
ॐ उदाराय नमः ||
ॐ रोहिणीपतये नमः ||
ॐ नित्योदयाय नमः ||
ॐ मुनिस्तुत्याय नमः ||
ॐ नित्यानन्दफलप्रदाय नमः ||
ॐ सकलाह्लादनकराय नमः ||
ॐ पलाशेध्मप्रियाय नमः ||
||इति चन्द्र अष्टोत्तरशतनामावलिः सम्पूर्णम् ||
jsr.............जय श्री राम...........