Saturday 5 August 2006

श्रीराधाकृष्णसहस्त्रनामस्तोत्रम्

श्रीराधाकृष्णसहस्त्रनामस्तोत्रम्

श्रीराधाकृष्णसहस्त्रनामस्तोत्रम्
ध्यानम्
स्वभावतोऽपास्तसमस्तदोष – मशेषकल्याणगुणैकराशिम् ।
व्यूहाङ्गिनं ब्रह्म परं वरेण्यं ध्यायेम कृष्णं कमलेक्षणं हरिम् ॥
अङ्गे तु वामे वृषभानुजां मुदा विराजमानामनुरूपसौभगाम् ।
सखीसहस्त्रैः परिसेवितां सदा स्मरेम देवीं सकलेष्टकामदाम् ॥
सनत्कुमार उवाच
ततस्त्त्वं नारद पुनः पृष्टवान् वै सदाशिवम् ।
नाम्नां सहस्त्रं तच्चापि प्रोक्तवांस्तच्छृणुष्व मे ।
ध्यात्वा वृन्दावने रम्ये यमुनातीरसंगतम् ॥
कल्पवृक्षं समाश्रित्य तिष्ठन्तं राधिकायुतम् ।
पठेन्नामसहस्त्रं तु युगलाख्यं महामुने ॥
स्तोत्रम् 
देवकीनन्दनः शौरिर्वासुदेवो बलानुजः ।
गदाग्रजः कंसमोहः कंससेवकमोहनः ॥१॥
भिन्नार्गलो भिन्नलोहः पितृबाह्यः पितृस्तुतः ।
मातृस्तुतः शिवध्येयो यमुनाजलभेदनः ॥२॥
व्रजवासी व्रजानन्दी नन्दबालो दयानिधिः ।
लीलाबालः पद्मनेत्रो गोकुलोत्सव ईश्वरः ॥३॥
गोपिकानन्दनः कृष्णो गोपानन्दः सतां गतिः ।
बकप्राणहरो विष्णुर्बकमुक्तिप्रदो हरिः ॥४॥
बलदोलाशयशयः श्यामलः सर्वसुन्दरः ।
पद्मनाभो हृषीकेश क्रीडामनुजबालकः ॥५॥
लीलाविध्वस्तशकटो वेदमन्त्राभिषेचितः ।
यशोदानन्दनः कान्तो मुनिकोटिनिषेवितः ॥६॥
नित्यं मधुवनावासी वैकुण्ठः सम्भवः क्रतुः ।
रमापतिर्यदुपतिर्मुरारिर्मधुसूदनः ॥७॥
माधवो मानहारी च श्रीपतिर्भूधरः प्रभुः ।
बृहद्वनमहालीलो नन्दसूनुर्महासनः ॥८॥
तृणावर्तप्राणहारी यशोदाविस्मयप्रदः ।
त्रैलोक्यवक्त्रः पद्माक्षः पद्महस्तः प्रियङ्करः ॥९॥
ब्रह्मण्यो धर्मगोप्ता च भूपतिः श्रीधरः स्वराट् ।
अजाध्यक्षः शिवाध्यक्षो धर्माध्यक्षो महेश्वरः ॥१०॥
वेदान्तवेद्यो ब्रह्मस्थः प्रजापतिरमोघदृक् ।
गोपीकरावलम्बी च गोपबालकसुप्रियः ॥११॥
बलानुयायी बलवान् श्रीदामप्रिय आत्मवान् ।
गोपीगृहाङ्गणरतिर्भद्रः सुश्लोकमङ्गलः ॥१२॥
नवनीतहरो बालो नवनीतप्रियाशनः ।
बालवृन्दी मर्कवृन्दी चकिताक्षः पलायितः ॥१३॥
यशोदातर्जितः कम्पी मायारुदितशोभनः ।
दामोदरोऽप्रमेयात्मा दयालुर्भक्तवत्सलः ॥१४॥
सुबद्धोलूखलो नम्रशिरा गोपीकदर्थितः ।
वृक्षभङ्गी शोकभङ्गी धनदात्मजमोक्षणः ॥१५॥
देवर्षिवचनश्‍लाघी भक्तवात्सल्यसागरः ।
व्रजकोलाहलकरो व्रजानन्दविवर्धनः ॥१६॥
गोपात्मा प्रेरकः साक्षी वृन्दावननिवासकृत् ।
वत्सपालो वत्सपतिर्गोपदारकमण्डनः ॥१७॥
बालक्रीडो बालरतिर्बालकः कनकाङ्गदी ।
पीताम्बरो हेममाली मणिमुक्ताविभूषणः ॥१८॥
किङ्किणीकटकी सूत्री नूपुरी मुद्रिकान्वितः ।
वत्सासुरपतिध्वंसी बकासुरविनाशनः ॥१९॥
अघासुरविनाशी च विनिद्रीकृतबालकः ।
आद्य आत्मप्रदः सङ्गी यमुनातीरभोजनः ॥२०॥
गोपालमण्डलीमध्यः सर्वगोपालभूषणः ।
कृतहस्ततलग्रासो व्यञ्जनाश्रितशाखिकः ॥२१॥
कृतबाहुश्रृङ्गयष्टिर्गुञ्जालंकृतकण्ठकः ।
मयूरपिच्छमुकुटो वनमालविभूषितः ॥२२॥
गैरिकाचित्रितवपुर्नवमेघवपुः स्मरः ।
कोटिकन्दर्पलावण्यो लसन्मकरकुण्डलः ॥२३॥
आजानुबाहुर्भगवान् निद्रारहितलोचनः ।
कोटिसागरगाम्भीर्यः कालकालः सदाशिवः ॥२४॥
विरञ्चिमोहनवपुर्गोपवत्सवपुर्धरः ।
ब्रह्माण्डकोटिजनको ब्रह्ममोहविनाशकः ॥२५॥
ब्रह्मा ब्रह्मेडितः स्वामी शक्रदर्पादिनाशनः ।
गिरिपूजोपदेष्टा च धृतगोवर्धनाचलः ॥२६॥
पुरन्दरेडितः पूज्यः कामधेनुप्रपूजितः ।
सर्वतीर्थाभिषिक्तश्च गोविन्दो गोपरक्षकः ॥२७॥
कालियार्तिकरः क्रूरो नागपत्नीडितो विराट् ।
धेनुकारिः प्रलम्बारिर्वृषासुरविमर्दनः ॥२८॥
मयासुरात्मजध्वंसी केशिकण्ठविदारकः ।
गोपगोप्ता धेनुगोप्ता दावाग्निपरिशोषकः ॥२९॥
गोपकन्यावस्त्रहारी गोपकन्यावरप्रदः ।
यज्ञपत्‍न्यन्नभोजी च मुनिमानापहारकः ॥३०॥
जलेशमानमथनो नन्दगोपालजीवनः ।
गन्धर्वशापमोक्ता च शङ्खचूडशिरोहरः ॥३१॥
वंशीवटी वेणुवादी गोपीचिन्तापहारकः ।
सर्वगोप्ता समाह्वानः सर्वगोपीमनोरथः ॥३२॥
व्यङ्ग्यधर्मप्रवक्ता च गोपीमण्डलमोहनः ।
रासक्रीडारसास्वादी रसिको राधिकाधवः ॥३३॥
किशोरीप्राणनाथश्च वृषभानुसुताप्रियः ।
सर्वगोपीजनानन्दी गोपीजनविमोहनः ॥३४॥
गोपिकागीतचरितो गोपीनर्तनलालसः ।
गोपीस्कन्धाश्रितकरो गोपिकाचुम्बनप्रियः ॥३५॥
गोपिकामर्जितमुखो गोपीव्यजनवीजितः ।
गोपिकाकेशसंस्कारी गोपिकापुष्पसंस्तरः ॥३६॥
गोपिकाहृदयालम्बी गोपीवहनतत्परः ।
गोपिकामदहारी च गोपिकापरमार्जितः ॥३७॥
गोपिकाकृतसल्लीलो गोपिकासंस्मृतप्रियः ।
गोपिकावन्दितपदो गोपिकावशवर्तनः ॥३८॥
राधापराजितः श्रीमान् निकुञ्जेषु विहारवान् ।
कुञ्जप्रियः कुञ्जवासी वृन्दावनविकासनः ॥३९॥
यमुनाजलसिक्ताङ्गो यमुनासौख्यदायकः ।
शशिसंस्तम्भनः शूरः कामी कामविमोहनः ॥४०॥
कामाद्यः कामनाथश्च काममानसभेदनः ।
कामदः कामरूपश्च कामिनीकामसंचयः ॥४१॥
नित्यक्रीडो महालीलः सर्व सर्वगतस्तथा ।
परमात्मा पराधीशः सर्वकारणकारणः ॥४२॥
गृहीतनारदवचो ह्यक्रूरपरिचिन्तितः ।
अक्रूरवन्दितपदो गोपिकातोषकारकः ॥४३॥
अक्रूरवाक्यसंग्राही मथुरावासकारणः ।
अक्रूरतापशमनो रजकायुःप्रणाशनः ॥४४॥
मथुरानन्ददायी च कंसवस्त्रविलुण्ठनः ।
कंसवस्त्रपरीधानो गोपवस्त्रप्रदायकः ॥४५॥
सुदामगृहगामी च सुदामपरिपूजितः ।
तन्तुवायकसम्प्रीतः कुब्जाचन्दनलेपनः ॥४६॥
कुब्जारूपप्रदो विज्ञो मुकुन्दो विष्टरश्रवाः ।
सर्वज्ञो मथुरालोकी सर्वलोकाभिनन्दनः ॥४७॥
कृपाकटाक्षदर्शी च दैत्यारिर्देवपालकः ।
सर्वदुःखप्रशमनो धनुर्भङ्गी महोत्सवः ॥४८॥
कुवलयापीडहन्ता दन्तस्कन्धबलाग्रणीः ।
कल्परूपधरो धीरो दिव्यवस्त्रानुलेपनः ॥४९॥
मल्लरूपो महाकालः कामरूपी बलान्वितः ।
कंसत्रासकरो भीमो मुष्टिकान्तश्च कंसहा ॥५०॥
चाणूरघ्नो भयहरः शलारिस्तोशलान्तकः ।
वैकुण्ठवासी कंसारिः सर्वदुष्टनिषूदनः ॥५१॥
देवदुन्दुभिनिर्घोषी पितृशोकनिवारणः ।
यादवेन्द्र सतां नाथो यादवारिप्रमर्दनः ॥५२॥
शौरिशोकविनाशी च देवकीतापनाशनः ।
उग्रसेनपरित्राता उग्रसेनाभिपूजितः ॥५३॥
उग्रसेनाभिषेकी च उग्रसेनदयापरः ।
सर्वसात्वतसाक्षी च यदूनामभिनन्दनः ॥५४॥
सर्वमाथुरसंसेव्यः करुणो भक्तबान्धवः ।
सर्वगोपालधनदो गोपीगोपाललालसः ॥५५॥
शौरिदत्तोपवीती च उग्रसेनदयाकरः ।
गुरुभक्तो ब्रह्मचारी निगमाध्ययने रतः ॥५६॥
संकर्षणसहाध्यायी सुदामसुहृदेव च ।
विद्यानिधिः कलाकोशो मृतपुत्रप्रदस्तथा ॥५७॥
चक्री पाञ्चजनी चैव सर्वनारकिमोचनः ।
यमार्चितः परो देवो नामोच्चारवशोऽच्युतः ॥५८॥
कुब्जाविलासी सुभगो दीनबन्धुरनूपमः ।
अक्रूरगृहगोप्ता च प्रतिज्ञापालकः शुभः ॥५९॥
जरासंधजयी विद्वान् यवनान्तो द्विजाश्रयः ।
मुचुकुन्दप्रियकरो जरासंधपलायितः ॥६०॥
द्वारकाजनको गूढो ब्रह्मण्यः सत्यसंगरः ।
लीलाधरः प्रियकरो विश्वकर्मा यशःप्रदः ॥६१॥
रुक्मिणीप्रियसंदेशो रुक्मशोकविवर्धनः ।
चैद्यशोकालयः श्रेष्ठो दुष्टराजन्यनाशनः ॥६२॥
रुक्मिवैरूप्यकरणो रुक्मिणीवचने रतः ।
बलभद्रवचोग्राही मुक्तरुक्मी जनार्दनः ॥६३॥
रुक्मिणीप्राणनाथश्च सत्यभामापतिः स्वयम् ।
भक्तपक्षी भक्तिवश्यो ह्यक्रूरमणिदायकः ॥६४॥
शतधन्वाप्राणहारी ऋक्षराजसुताप्रियः ।
सत्राजित्तनयाकन्तो मित्रविन्दापहारकः ॥६५॥
सत्यापतिर्लक्ष्मणाजित्पूज्यो भद्राप्रियङ्करः ।
नरकासुरघाती च लीलाकन्याहरो जयी ॥६६॥
मुरारिर्मदनेशोऽपि धरित्रीदुःखनाशनः ।
वैनतेयी स्वर्गगामी अदित्यै कुण्डलप्रदः ॥६७॥
इन्द्रर्चितो रमाकान्तो वज्रिभार्याप्रपूजितः ।
पारिजातापहारी च शक्रमानापहारकः ॥६८॥
प्रद्युम्नजनकः साम्बतातो बहुसुतो विधुः ।
गर्गाचार्यः सत्यगतिर्धर्माधारो धराधरः ॥६९॥
द्वारकामण्डनः श्‍लोक्यः सुश्‍लोको निगमालयः ।
पौण्ड्रकप्राणहारी च काशीराजशिरोहरः ॥७०॥
अवैष्णवविप्रदाही सुदक्षिणभयावहः ।
जरासंधविदारी च धर्मनन्दनयज्ञकृत् ॥७१॥
शिशुपालशिरश्छेदी दन्तवक्त्रविनाशनः ।
विदूरथान्तकः श्रीशः श्रीदो द्विविदनाशनः ॥७२॥
रुक्मिणीमानहारी च रुक्मिणीमानवर्धनः ।
देवर्षिशापहर्ता च द्रौपदीवाक्यपालकः ॥७३॥
दुर्वासाभयहारी च पाञ्चालीस्मरणागतः ।
पार्थदूतः पार्थमन्त्री पार्थदुःखौघनाशनः ॥७४॥
पार्थमानापहारी च पार्थजीवनदायकः ।
पाञ्चालीवस्त्रदाता च विश्वपालकपालकः ॥७५॥
श्चेताश्वसारथिः सत्यः सत्यसाध्यो भयापहः ।
सत्यसन्धः सत्यरतिः सत्यप्रिय उदारधीः ॥७६॥
महासेनजयी चैव शिवसैन्यविनाशनः ।
बाणसुरभुजच्छेत्ता बाणबाहुवरप्रदः ॥७७॥
तार्क्ष्यमानापहारी च तार्क्ष्यतेजोविवर्धनः ।
रामस्वरूपधारी च सत्यभामामुदावहः ॥७८॥
रत्नाकरजलक्रीडो व्रजलीलाप्रदर्शकः ।
स्वप्रतिज्ञापरिध्वंसी भीष्माज्ञापरिपालकः ॥७९॥
वीरायुधहरः कालः कालिकेशो महाबलः ।
बर्बरीकशिरोहारी बर्बरीकशिरःप्रदः ॥८०॥
धर्मपुत्रजयी शूरदुर्योधनमदान्तकः ।
गोपिकाप्रीतिनिर्बन्धनित्यक्रीडो व्रजेश्वरः ॥८१॥
राधाकुण्डरतिर्धन्यः सदान्दोलसमाश्रितः ।
सदा मधुवनानन्दी सदा वृन्दावनप्रियः ॥८२॥
अशोकवनसंनद्धः सदा तिलकसङ्गतः ।
सदा गोवर्धनरतिः सदा गोकुलवल्लभः ॥८३॥
भाण्डीरवटसंवासी नित्यं वंशीवटस्थितः ।
नन्दग्रामकृतावासो वृषभानुगृहप्रियः ॥८४॥
गृहीतकामिनीरूपो नित्यं रासविलासकृत् ।
वल्लवीजनसंगोप्ता वल्लवीजनवल्लभः ॥८५॥
देवशर्मकृपाकर्ता कल्पपादपसंस्थितः ।
शिलानुगन्धनिलयः पादचारी घनच्छविः ॥८६॥
अतसीकुसुमप्रख्यः सदा लक्ष्मीकृपाकरः ।
त्रिपुरारिप्रियकरो ह्युग्रधन्वापराजितः ॥८७॥
षड्‍धुरध्वंसकर्ता च निकुम्भप्राणहारकः ।
वज्रनाभपुरध्वंसी पौण्ड्रकप्राणहारकः ॥८८॥
बहुलाश्वप्रीतिकर्ता द्विजवर्यप्रियङ्करः ।
शिवसंकटहारी च वृकासुरविनाशनः ॥८९॥
भृगुसत्कारकारी च शिवसात्त्विकताप्रदः ।
गोकर्णपूजकः साम्बकुष्ठविध्वंसकारणः ॥९०॥
वेदस्तुतो वेदवेत्ता यदुवंशविवर्धनः ।
यदुवंशविनाशी च उद्धवोद्धारकारकः ॥९१॥
राधा च राधिका चैव आनन्दा वृषभानुजा ।
वृन्दावनेश्वरी पुण्या कृष्णमानसहारिणी ॥९२॥
प्रगल्भा चतुरा कामा कामिनी हरिमोहिनी ।
ललिता मधुरा माध्वी किशोरी कनकप्रभा ॥९३॥
जितचन्द्रा जितमृगा जितसिंहा जितद्विपा ।
जितरम्भा जितपिका गोविन्दहृदयोद्भवा ॥९४॥
जितबिम्बा जितशुका जितपद्मा कुमारिका ।
श्रीकृष्णाकर्षणा देवी नित्यं युग्मस्वरूपिणी ॥९५॥
नित्यं विहारिणी कान्ता रसिका कृष्णवल्लभा ।
आमोदिनी मोदवती नन्दनन्दनभूषिता ॥९६॥
दिव्याम्बरा दिव्यहारा मुक्तामणिविभूषिता ।
कुञ्जप्रिया कुञ्जवासा कुञ्जनायकनायिका ॥९७॥
चारुरूपा चारुवक्त्रा चारुहेमाङ्गदा शुभा ।
श्रीकृष्णवेणुसङ्गीता मुरलीहारिणी शिवा ॥९८॥
भद्रा भगवती शान्ता कुमुदा सुन्दरी प्रिया ।
कृष्णक्रीडा कृष्णरतिः श्रीकृष्णसहचारिणी ॥९९॥
वंशीवटप्रियस्थाना युग्मायुग्मस्वरूपिणी ।
भाण्डीरवासिनी शुभ्रा गोपीनाथप्रिया सखी ॥१००॥
श्रुतिनिःश्वसिता दिव्या गोविन्दरसदायिनी ।
श्रीकृष्णप्रार्थनीशाना महानन्दप्रदायिनी ॥१०१॥
वैकुण्ठजनसंसेव्या कोटिलक्ष्मीसुखावहा ।
कोटिकन्दर्पलावण्या रतिकोटिरतिप्रदा ॥१०२॥
भक्तिग्राह्मा भक्तिरूपा लावण्यसरसी उमा ।
ब्रह्मरुद्रादिसंराध्या नित्यं कौतूहलान्विता ॥१०३॥
नित्यलीला नित्यकामा नित्यश्रृङ्गारभूषिता ।
नित्यवृन्दावनरसा नन्दनन्दनसंयुता ॥१०४॥
गोपिकामण्डलीयुक्ता नित्यं गोपालसंगता ।
गोरसक्षेपणी शूरा सानन्दानन्ददायिनी ॥१०५॥
महालीलाप्रकृष्टा च नागरी नगचारिणी ।
नित्यमाघूर्णिता पूर्णा कस्तूरीतिलकान्विता ॥१०६॥
पद्मा श्यामा मृगाक्षी च सिद्धिरूपा रसावहा ।
कोटिचन्द्रानना गौरी कोटिकोकिलसुस्वरा ॥१०७॥
शीलसौन्दर्यनिलया नन्दनन्दनलालिता ।
अशोकवनसंवासा भाण्डीरवनसंगता ॥१०८॥
कल्पद्रुमतलाविष्टा कृष्णा विश्वा हरिप्रिया ।
अजागम्या भवागम्या गोवर्धनकृतालया ॥१०९॥
यमुनातीरनिलया शश्वद्गोविन्दजल्पिनी ।
शश्वन्मानवती स्निग्धा श्रीकृष्णपरिवन्दिता ॥११०॥
कृष्णस्तुता कृष्णवृता श्रीकृष्णहृदयालया ।
देवद्रुमफला सेव्या वृन्दावनरसालया ॥१११॥
कोटितीर्थमयी सत्या कोटितीर्थफलप्रदा ।
कोटियोगसुदुष्प्राप्या कोटियज्ञदुराश्रया ॥११२॥
मनसा शशिलेखा च श्रीकोटिसुभगाऽनघा ।
कोटिमुक्तसुखा सौम्या लक्ष्मीकोटिविलासिनी ॥११३॥
तिलोत्तमा त्रिकालस्था त्रिकालज्ञाप्यधीश्वरी ।
त्रिवेदज्ञा त्रिलोकज्ञा तुरीयान्तनिवासिनी ॥११४॥
दुर्गाराध्या रमाराध्या विश्वाराध्या चिदात्मिका ।
देवाराध्या पराराध्या ब्रह्माराध्या परात्मिका ॥११५॥
शिवाराध्या प्रेमसाध्या भक्ताराध्या रसात्मिका ।
कृष्णप्राणार्पिणी भामा शुद्धप्रेमविलासिनी ॥११६॥
कृष्णाराध्या भक्तिसाध्या भक्तवृन्दनिषेविता ।
विश्वाधारा कृपाधारा जीवाधारातिनायिका ॥११७॥
शुद्धप्रेममयी लज्जा नित्यसिद्धा शिरोमणिः।
दिव्यरूपा दिव्यभोगा दिव्यवेषा मुदान्विता ॥११८॥
दिव्याङ्गनावृन्दसारा नित्यनूतनयौवना ।
परब्रह्मावृता ध्येया महारूपा महोज्ज्वला ॥११९॥
कोटिसूर्यप्रभा कोटिचन्द्रबिम्बाधिकच्छविः ।
कोमलामृतवागाद्या वेदाद्या वेददुर्लभा ॥१२०॥
कृष्णासक्ता कृष्णभक्ता चन्द्रवलिनिषेविता ।
कलाषोडशसम्पूर्णा कृष्णदेहार्धधारिणी ॥१२१॥
कृष्णबुद्धिः कृष्णसारा कृष्णरूपविहारिणी ।
कृष्णकान्ता कृष्णधना कृष्णमोहनकारिणी ॥१२२॥
कृष्णदृष्टिः कृष्णगोत्री कृष्णदेवी कुलोद्वहा ।
सर्वभूतस्थितावात्मा सर्वलोकनमस्कृता ॥१२३॥
कृष्णदात्री प्रेमधात्री स्वर्णगात्री मनोरमा ।
नगधात्री यशोदात्री महादेवी शुभङ्करी ॥१२४॥
श्रीशेषदेवजननी अवतारगणप्रसूः ।
उत्पलाङ्कारविन्दाङ्का प्रासादाङ्दाद्वितीयका ॥१२५॥
रथाङ्का कुञ्जराङ्का च कुण्डलाङ्कपदस्थिता ।
छत्राङ्का विद्युदङ्का च पुष्पमालाङ्कितापि च ॥१२६॥
दण्डाङ्का मुकुटाङ्का च पूर्णचन्द्रा शुकाङ्किता ।
कृष्णान्नाहारपाका च वृन्दाकुञ्जविहारिणी ॥१२७॥
कृष्णप्रबोधनकरी कृष्णशेषान्नभोजिनी ।
पद्मकेसरमध्यस्था सङ्गीतागमवेदिनी ॥१२८॥
कोटिकल्पान्तभ्रूभङ्गा अप्राप्तप्रलयाच्युता ।
सर्वसत्त्वनिधिः पद्मशङ्खादिनिधिसेविता ॥१२९॥
अणिमादिगुणैश्वर्या देववृन्दविमोहिनी ।
सर्वानन्दप्रदा सर्वा सुवर्णलतिकाकृतिः ॥१३०॥
कृष्णाभिसारसंकेता मालिनी नृत्यपण्डिता ।
गोपीसिन्धुसकाशाह्वा गोपमण्डपशोभिनी ॥१३१॥
श्रीकृष्णप्रीतिदा भीता प्रत्यङ्गपुलकाञ्चिता ।
श्रीकृष्णालिंगनरता गोविन्दविरहाक्षमा ॥१३२॥
अनन्तगुणसम्पन्ना कृष्णकीर्तनलालसा ।
बीजत्रयमयीमूर्तिः कृष्णानुग्रहवाञ्छिता ॥१३३॥
विमलादिनिषेव्या च ललिताद्यर्चिता सती ।
पद्मवृन्दस्थिता हृष्टा त्रिपुरापरिसेविता ॥१३४॥
वृन्तावत्यर्चिता श्रद्धा दुर्ज्ञेया भक्तवल्लभा ।
दुर्लभा सान्द्रसौख्यात्मा श्रेयोहेतुः सुभोगदा ॥१३५॥
सारङ्गा शारदा बोधा सद्‍वृन्दावनचारिणी ।
ब्रह्मानन्दा चिदानन्दा ध्यानानन्दार्धमात्रिका ॥१३६॥
गन्धर्वा सुरतज्ञा च गोविन्दप्राणसङ्गमा ।
कृष्णाङ्गभूषणा रत्नभूषणा स्वर्णभूषिता ॥१३७॥
श्रीकृष्णहृदयावासा मुक्ताकनकनासिका ।
सद्रत्नकङ्कणयुता श्रीमन्नीलगिरिस्थिता ॥१३८॥
स्वर्णनूपुरसम्पन्ना स्वर्णकिङ्किणिमण्डिता ।
अशेषरासकुतुका रम्भोरूस्तनुमध्यमा ॥१३९॥
पराकृतिः परानन्दा परस्वर्गविहारिणी ।
प्रसूनकबरी चित्रा महासिन्दूरसुन्दरी ॥१४०॥
कैशोरवयसा बाला प्रमदाकुलशेखरा ।
कृष्णाधरसुधास्वादा श्यामप्रेमविनोदिनी ॥१४१॥
शिखिपिच्छसच्चूडा स्वर्णचम्पकभूषिता ।
कुंकुमालक्तकस्तूरीमण्डिता चापराजिता ॥१४२॥
हेमहारान्विता पुष्पहाराढ्या रसवत्यपि ।
माधुर्यमधुरा पद्मा पद्महस्ता सुविश्रुता ॥१४३॥
भ्रूभङगाङ्गकोदंडकटाक्षरसंधिनी ।
शेषदेवाशिरस्था च नित्यस्थलविहारिणी ॥१४४॥
कारुण्यजलमध्यस्था नित्यमत्ताधिरोहिणी ।
अष्टभाववती चाष्टनायिका लक्षणान्विता ॥१४५॥
सुनीतिज्ञा श्रुतिज्ञा च सर्वज्ञा दुःखहारिणी ।
रजोगुणेश्वरी चैव शरच्चन्द्रनिभानना ॥१४६॥
केतकीकुसुमाभासा सदा सिन्धुवनस्थिता ।
हेमपुष्पाधिककरा पञ्चशक्तिमयी हिता ॥१४७॥
स्तनकुम्भी नरढ्या च क्षीणापुण्या यशस्विनी ।
वैराजसूर्यजननी श्रीशा भुवनमोहिनी ॥१४८॥
महाशोभा महामाया महाकान्तिर्महास्मृतिः ।
महामोहा महाविद्या महाकीर्तिर्महारतिः ॥१४९॥
महाधैर्या महावीर्या महाशक्तिर्महाद्युतिः ।
महागौरी महासम्पन्महाभोगविलासिनी ॥१५०॥
समया भक्तिदाशोका वात्सल्यरसदायिनी ।
सुहद्भक्तिप्रदा स्वच्छा माधुर्यरसवर्षिणी ॥१५१॥
भावभक्तिप्रदा शुद्भप्रेमभक्तिविधायिनी ।
गोपरामभिरामा च क्रिडारामा परेश्वरी ॥१५२॥
नित्यरामा चात्मरामा कृष्णरामा रमेश्वरी ।
एकानेकजगद्‍व्याप्ता विश्वलीलाप्रकाशिनी ॥१५३॥
सरस्वतीशा दुर्गेशा जगदीशा जगद्विधिः ।
विष्णुवंशनिवासा च विष्णुवंशसमुद्भवा ॥१५४॥
विष्णुवंशस्तुता कर्त्री विष्णुवंशावनी सदा ।
आरामस्था वनस्था च सूर्यपुत्र्यवगाहिनी ॥१५५॥
प्रीतिस्था नित्ययन्त्रस्था गोलोकस्था विभूतिदा ।
स्वानुभूतिस्थिता व्यक्ता सर्वलोकनिवासिनी ॥१५६॥
अमृता ह्यद्भुता श्रीमन्नारायनसमीडिता ।
अक्षरापि च कूटस्था महापुरुषसम्भवा ॥१५७॥
औदार्यभावसाध्या च स्थूलसूक्ष्मातिरूपिणी ।
शिरीषपुष्पमृदुला गाङेगयमुकुरप्रभा ॥१५८॥
नीलोत्पलजिताक्षी च सद्रत्नकबरान्विता ।
प्रेमपर्यङ्कनिलया तेजोमण्डलमध्यगा ॥१५९॥
कृष्णाङ्गगोपनाभेदा लीलावरणनायिका ।
सुधासिन्धुसमुल्लासामृतास्यन्दविधायिनी ॥१६०॥
कृष्णचित्ता रासचिता प्रेमचित्ता हरिप्रिया ।
अचिन्तनगुणग्रामा कृष्णलीला मलापहा ॥१६१॥
राससिन्धुशशाङ्का च रासमण्डलमण्डिनी ।
नतव्रता श्रीहरीच्छासुमूर्तिः सुरवन्दिता ॥१६२॥
गोपीचूडामणिर्गोपीगणेड्या विरजाधिका ।
गोपप्रेष्ठा गोपकन्या गोपनारी सुगोपिका ॥१६३॥
गोपधामा सुदामाम्बा गोपाली गोपमोहिनी ।
गोपभूषा कृष्णभूषा श्रीवृन्दावनचन्द्रिका ॥१६४॥
वीणादिघोषनिरता रासोत्सवविकासिनी ।
कृष्णचेष्टापरिज्ञाता कोटिकन्दर्पमोहिनी ॥१६५॥
श्रीकृष्णगुणगानाढ्या देवसुन्दरिमोहिनी ।
कृष्णचन्द्रमनोज्ञा च कृष्णदेवसहोदरी ॥१६६॥
कृष्णाभिलाषिणी कृष्णप्रेमानुग्रहवाञ्छिनी ।
क्षेमा च मधुरालापा भ्रुवोमाया सुभद्रिका ॥१६७॥
प्रकृतिः परमानन्दा नीपद्रुमतलस्थिता ।
कृपाकटाक्षा बिम्बोष्ठी रम्भा चारुनितम्बिनी ॥१६८॥
स्मरकेलिनिधाना च गण्डताटङ्कमण्डिता ।
हेमाद्रिकान्तिरुचिरा प्रेमाढ्या मदमन्थरा ॥१६९॥
कृष्णचिन्ता प्रेमचिन्ता रतिचिन्ता च कृष्णदा ।
रासचिन्ता भावचिन्ता शुद्धचिन्ता महारसा ॥१७०॥
कृष्णादृष्टित्रुटियुगा दृष्टिपक्ष्मविनिन्दिनी ।
कन्दर्पजननी मुख्या वैकुण्ठगतिदायिनी ॥१७१॥
रासभावा प्रियाश्‍लिष्टा प्रेष्ठा प्रथमनायिका ।
शुद्धा सुधादेहिनी च श्रीरामा रसमञ्जरी ॥१७२॥
सुप्रभावा शुभाचारा स्वर्नदीनर्मदाम्बिका ।
गोमतीचन्द्रभागेड्या सरयूताम्रपर्णिसूः ॥१७३॥
निष्कलङ्कचरित्रा च निर्गुणा च निरञ्जना ।<B>
॥ फलश्रुतिः ॥</B>
एतन्नामसहस्त्रं तु युग्मरूपस्य नारद ॥१७४॥
पठनीयं प्रयत्नेन वृन्दावनरसावहे ।
महापापप्रशमनं वन्ध्यात्वविनिवर्तकम् ॥१७५॥
दारिद्र्यशमनं रोगनाशनं कामदं महत् ।
पापापहं वैरिहरं राधामाधवभक्तिदम् ॥१७६॥
नमस्तस्मै भगवते कृष्णायाकुण्ठमेधसे ।
राधासंगसुधासिन्धौ नमो नित्यविहारिणे ॥१७७॥
राधादेवी जगत्कर्त्री जगत्पालनतत्परा ।
जगल्लयविधात्री च सर्वेशी सर्वसूतिका ॥१७८॥
तस्या नामसहस्त्रं वै मया प्रोक्तं मुनीश्वर ।
भुक्तिमुक्तिप्रदं दिव्यं किं भूयः श्रोतुमिच्छसि ॥१७९॥
॥ इति श्रीबृहन्नारदीयपुराणे पूर्वभागे बृहदुपाख्याने तृतीयपादे श्रीराधाकृष्णसहस्त्रनामास्तोत्रं सम्पूर्णम् ॥

Saturday 8 July 2006

बुध अष्टोत्तरशतनामवलिः by mukesh bijlwan...........

बुध अष्टोत्तरशतनामवलिः

||बुध अष्टोत्तरशतनामवलिः ||
बुध बीज मन्त्र -
ॐ ब्राँ ब्रीं ब्रौं सः बुधाय नमः ||
ॐ बुधाय नमः ||
ॐ बुधार्चिताय नमः ||
ॐ सौम्याय नमः ||
ॐ सौम्यचित्ताय नमः ||
ॐ शुभप्रदाय नमः ||
ॐ दृढव्रताय नमः ||
ॐ दृढफलाय नमः ||
ॐ श्रुतिजालप्रबोधकाय नमः ||
ॐ सत्यवासाय नमः ||
ॐ सत्यवचसे नमः ||१०
ॐ श्रेयसां पतये नमः ||
ॐ अव्ययाय नमः ||
ॐ सोमजाय नमः ||
ॐ सुखदाय नमः ||
ॐ श्रीमते नमः ||
ॐ सोमवंशप्रदीपकाय नमः ||
ॐ वेदविदे नमः ||
ॐ वेदतत्त्वाशाय नमः ||
ॐ वेदान्तज्ञानभास्कराय नमः ||
ॐ विद्याविचक्षणाय नमः ||२०
ॐ विदुषे नमः ||
ॐ विद्वत्प्रीतिकराय नमः ||
ॐ ऋजवे नमः ||
ॐ विश्वानुकूलसंचाराय नमः ||
ॐ विशेषविनयान्विताय नमः ||
ॐ विविधागमसारज्ञाय नमः ||
ॐ वीर्यवते नमः ||
ॐ विगतज्वराय नमः ||
ॐ त्रिवर्गफलदाय नमः ||
ॐ अनन्ताय नमः ||३०
ॐ त्रिदशाधिपपूजिताय नमः ||
ॐ बुद्धिमते नमः ||
ॐ बहुशास्त्रज्ञाय नमः ||
ॐ बलिने नमः ||
ॐ बन्धविमोचकाय नमः ||
ॐ वक्रातिवक्रगमनाय नमः ||
ॐ वासवाय नमः ||
ॐ वसुधाधिपाय नमः ||
ॐ प्रसन्नवदनाय नमः ||
ॐ वन्द्याय नमः ||४०
ॐ वरेण्याय नमः ||
ॐ वाग्विलक्षणाय नमः ||
ॐ सत्यवते नमः ||
ॐ सत्यसंकल्पाय नमः ||
ॐ सत्यबन्धवे नमः ||
ॐ सदादराय नमः ||
ॐ सर्वरोगप्रशमनाय नमः ||
ॐ सर्वमृत्युनिवारकाय नमः ||
ॐ वाणिज्यनिपुणाय नमः ||
ॐ वश्याय नमः ||५०
ॐ वाताङ्गाय नमः ||
ॐ वातरोगहृते नमः ||
ॐ स्थूलाय नमः ||
ॐ स्थैर्यगुणाध्यक्षाय नमः ||
ॐ स्थूलसूक्ष्मादिकारणाय नमः ||
ॐ अप्रकाशाय नमः ||
ॐ प्रकाशात्मने नमः ||
ॐ घनाय नमः ||
ॐ गगनभूषणाय नमः ||
ॐ विधिस्तुत्याय नमः ||६०
ॐ विशालाक्षाय नमः ||
ॐ विद्वज्जनमनोहराय नमः ||
ॐ चारुशीलाय नमः ||
ॐ स्वप्रकाशाय नमः ||
ॐ चपलाय नमः ||
ॐ जितेन्द्रियाय नमः ||
ॐ उदङ्मुखाय नमः ||
ॐ मखासक्ताय नमः ||
ॐ मगधाधिपतये नमः ||
ॐ हरये नमः ||७०
ॐ सौम्यवत्सरसंजाताय नमः ||
ॐ सोमप्रियकराय नमः ||
ॐ महते नमः ||
ॐ सिंहाधिरूढाय नमः ||
ॐ सर्वज्ञाय नमः ||
ॐ शिखिवर्णाय नमः ||
ॐ शिवंकराय नमः ||
ॐ पीताम्बराय नमः ||
ॐ पीतवपुषे नमः ||
ॐ पीतच्छत्रध्वजाङ्किताय नमः ||८०
ॐ खड्गचर्मधराय नमः ||
ॐ कार्यकर्त्रे नमः ||
ॐ कलुषहारकाय नमः ||
ॐ आत्रेयगोत्रजाय नमः ||
ॐ अत्यन्तविनयाय नमः ||
ॐ विश्वपवनाय नमः ||
ॐ चाम्पेयपुष्पसंकाशाय नमः ||
ॐ चारणाय नमः ||
ॐ चारुभूषणाय नमः ||
ॐ वीतरागाय नमः ||९०
ॐ वीतभयाय नमः ||
ॐ विशुद्धकनकप्रभाय नमः ||
ॐ बन्धुप्रियाय नमः ||
ॐ बन्धुयुक्ताय नमः ||
ॐ वनमण्डलसंश्रिताय नमः ||
ॐ अर्केशाननिवासस्थाय नमः ||
ॐ तर्कशास्त्रविशारदाय नमः ||
ॐ प्रशान्ताय नमः ||
ॐ प्रीतिसंयुक्ताय नमः ||
ॐ प्रियकृते नमः ||१००
ॐ प्रियभूषणाय नमः ||
ॐ मेधाविने नमः ||
ॐ माधवसक्ताय नमः ||
ॐ मिथुनाधिपतये नमः ||
ॐ सुधिये नमः ||
ॐ कन्याराशिप्रियाय नमः ||
ॐ कामप्रदाय नमः ||
ॐ घनफलाश्रयाय नमः ||
||इति बुध अष्टोत्तरशतनामावलिः सम्पूर्णम् ||
jsr...............

Friday 24 March 2006

गणपति अथर्वशीर्ष

‘गणपति अथर्वशीर्ष

अथर्वशीर्ष की परम्परा में ‘गणपति अथर्वशीर्ष’ का विशेष महत्त्व है। प्रायः प्रत्येक मांगलिक कार्यों में गणपति-पूजन के अनन्तर प्रार्थना रुप में इसके पाठ की परम्परा है। यह भगवान् गणपति का वैदिक-स्तवन है। इसका पाठ करने वाला किसी प्रकार के विघ्न से बाधित न होता हुआ महापातकों से मुक्त हो जाता है। इसी क्रम में इस ‘गणपति-सूक्त’ से इस ब्लाग का शुभारम्भ किया जा रहा है। ईश्वर मंगल करे।
॥ श्री गणपत्यथर्वशीर्ष ॥
॥ शान्ति पाठ ॥
ॐ भद्रं कर्णेभिः शृणुयाम देवाः । भद्रं पश्येमाक्षभिर्यजत्राः ॥
स्थिरैरङ्गैस्तुष्टुवांसस्तनूभिः । व्यशेम देवहितं यदायुः ॥
ॐ स्वस्ति न इन्द्रो वृद्धश्रवाः । स्वस्ति नः पूषा विश्ववेदाः ॥
स्वस्तिनस्तार्क्ष्यो अरिष्टनेमिः । स्वस्ति नो बृहस्पतिर्दधातु ॥
ॐ तन्मामवतु तद् वक्तारमवतु अवतु माम् अवतु वक्तारम्
ॐ शांतिः । शांतिः ॥ शांतिः॥।
॥ उपनिषत् ॥
॥हरिः ॐ नमस्ते गणपतये ॥
त्वमेव प्रत्यक्षं तत्त्वमसि। त्वमेव केवलं कर्ताऽसि। त्वमेव केवलं धर्ताऽसि। त्वमेव केवलं हर्ताऽसि। त्वमेव सर्वं खल्विदं ब्रह्मासि। त्वं साक्षादात्माऽसि नित्यम् ॥ १॥
गणपति को नमस्कार है, तुम्हीं प्रत्यक्ष तत्त्व हो, तुम्हीं केवल कर्त्ता, तुम्हीं केवल धारणकर्ता और तुम्हीं केवल संहारकर्ता हो, तुम्हीं केवल समस्त विश्वरुप ब्रह्म हो और तुम्हीं साक्षात् नित्य आत्मा हो।
॥ स्वरूप तत्त्व ॥
ऋतं वच्मि (वदिष्यामि)॥ सत्यं वच्मि (वदिष्यामि)॥ २॥
यथार्थ कहता हूँ। सत्य कहता हूँ।
अव त्वं माम् । अव वक्तारम् । अव श्रोतारम् । अव दातारम् । अव धातारम् । अवानूचानमव शिष्यम् । अव पश्चात्तात् । अव पुरस्तात् । अवोत्तरात्तात् । अव दक्षिणात्तात् । अव चोर्ध्वात्तात्। अवाधरात्तात्। सर्वतो मां पाहि पाहि समंतात् ॥३॥
तुम मेरी रक्षा करो। वक्ता की रक्षा करो। श्रोता की रक्षा करो। दाता की रक्षा करो। धाता की रक्षा करो। षडंग वेदविद् आचार्य की रक्षा करो। शिष्य रक्षा करो। पीछे से रक्षा करो। आगे से रक्षा करो। उत्तर (वाम भाग) की रक्षा करो। दक्षिण भाग की रक्षा करो। ऊपर से रक्षा करो। नीचे की ओर से रक्षा करो। सर्वतोभाव से मेरी रक्षा करो। सब दिशाओं से मेरी रक्षा करो।
त्वं वाङ्ग्मयस्त्वं चिन्मयः। त्वमानंदमयस्त्वं ब्रह्ममयः। त्वं सच्चिदानंदाद्वितीयोऽसि। त्वं प्रत्यक्षं ब्रह्मासि। त्वं ज्ञानमयो विज्ञानमयोऽसि ॥४॥
तुम वाङ्मय हो, तुम चिन्मय हो। तुम आनन्दमय हो। तुम ब्रह्ममय हो। तुम सच्चिदानन्द अद्वितीय परमात्मा हो। तुम प्रत्यक्ष ब्रह्म हो। तुम ज्ञानमय हो, विज्ञानमय हो।
सर्वं जगदिदं त्वत्तो जायते। सर्वं जगदिदं त्वत्तस्तिष्ठति। सर्वं जगदिदं त्वयि लयमेष्यति। सर्वं जगदिदं त्वयि प्रत्येति। त्वं भूमिरापोऽनलोऽनिलो नभः। त्वं चत्वारि वाक्पदानि ॥ ५॥
यह सारा जगत् तुमसे उत्पन्न होता है। यह सारा जगत् तुमसे सुरक्षित रहता है। यह सारा जगत् तुममें लीन होता है। यह अखिल विश्व तुममें ही प्रतीत होता है। तुम्हीं भूमि, जल, अग्नि और आकाश हो। तुम्हीं परा, पश्यन्ती, मध्यमा और वैखरी चतुर्विध वाक् हो।
त्वं गुणत्रयातीतः त्वमवस्थात्रयातीतः। त्वं देहत्रयातीतः। त्वं कालत्रयातीतः। त्वं मूलाधारः स्थिथोऽसि नित्यम्। त्वं शक्तित्रयात्मकः। त्वां योगिनो ध्यायंति नित्यम्। त्वं ब्रह्मा त्वं विष्णुस्त्वं रुद्रस्त्वं इन्द्रस्त्वं अग्निस्त्वं वायुस्त्वं सूर्यस्त्वं चंद्रमास्त्वं ब्रह्मभूर्भुवःस्वरोम् ॥ ६॥
तुम सत्त्व-रज-तम-इन तीनों गुणों से परे हो। तुम भूत-भविष्य-वर्तमान-इन तीनों कालों से परे हो। तुम स्थूल, सूक्ष्म और कारण- इन तीनों देहों से परे हो। तुम नित्य मूलाधार चक्र में स्थित हो। तुम प्रभु-शक्ति, उत्साह-शक्ति और मन्त्र-शक्ति- इन तीनों शक्तियों से संयुक्त हो। योगिजन नित्य तुम्हारा ध्यान करते हैं। तुम ब्रह्मा हो। तुम विष्णु हो। तुम रुद्र हो। तुम इन्द्र हो। तुम अग्नि हो। तुम वायु हो। तुम सूर्य हो। तुम चन्द्रमा हो। तुम (सगूण) ब्रह्म हो, तुम (निर्गुण) त्रिपाद भूः भुवः स्वः एवं प्रणव हो।
॥ गणेश मंत्र ॥
गणादिं पूर्वमुच्चार्य वर्णादिं तदनंतरम्।अनुस्वारः परतरः। अर्धेन्दुलसितम्। तारेण ऋद्धम्। एतत्तव मनुस्वरूपम्। गकारः पूर्वरूपम्। अकारो मध्यमरूपम्। अनुस्वारश्चान्त्यरूपम्। बिन्दुरुत्तररूपम्। नादः संधानम्। संहितासंधिः। सैषा गणेशविद्या। गणकऋषिः। निचृद्गायत्रीच्छंदः। गणपतिर्देवता। ॐ गं गणपतये नमः ॥ ७॥
‘गण’ शब्द के आदि अक्षर गकार का पहले उच्चारण करके अनन्तर आदिवर्ण अकार का उच्चारण करें। उसके बाद अनुस्वार रहे। इस प्रकार अर्धचन्द्र से पहले शोभित जो ‘गं’ है, वह ओंकार के द्वारा रुद्ध हो, अर्थात् उसके पहले और पीछे भी ओंकार हो। यही तुम्हारे मन्त्र का स्वरुप (ॐ गं ॐ) है। ‘गकार’ पूर्वरुप है, ‘अकार’ मध्यमरुप है, ‘अनुस्वार’ अन्त्य रुप है। ‘बिन्दु’ उत्तररुप है। ‘नाद’ संधान है। संहिता’ संधि है। ऐसी यह गणेशविद्या है। इस विद्या के गणक ऋषि हैं। निचृद् गायत्री छन्द है और गणपति देवता है। मन्त्र है- ‘ॐ गं गणपतये नमः”
॥ गणेश गायत्री ॥
एकदंताय विद्महे वक्रतुण्डाय धीमहि तन्नो दंतिः प्रचोदयात् ॥ ८॥
एकदन्त को हम जानते हैं, वक्रतुण्ड का हम ध्यान करते हैं। दन्ती हमको उस ज्ञान और ध्यान में प्रेरित करें।
॥ गणेश रूप (ध्यानम्)॥
एकदंतं चतुर्हस्तं पाशमंकुशधारिणम् ॥
रदं च वरदं हस्तैर्बिभ्राणं मूषकध्वजम् ॥
रक्तं लंबोदरं शूर्पकर्णकं रक्तवाससम् ॥
रक्तगंधानुलिप्तांगं रक्तपुष्पैः सुपूजितम् ॥
भक्तानुकंपिनं देवं जगत्कारणमच्युतम् ॥
आविर्भूतं च सृष्ट्यादौ प्रकृतेः पुरुषात्परम् ॥
एवं ध्यायति यो नित्यं स योगी योगिनां वरः ॥ ९॥
गणपतिदेव एकदन्त और चर्तुबाहु हैं। वे अपने चार हाथों में पाश, अंकुश, दन्त और वरमुद्रा धारण करते हैं। उनके ध्वज में मूषक का चिह्न है। वे रक्तवर्ण, लम्बोदर, शूर्पकर्ण तथा रक्तवस्त्रधारी हैं। रक्तचन्दन के द्वारा उनके अंग अनुलिप्त हैं। वे रक्तवर्ण के पुष्पों द्वारा सुपूजित हैं। भक्तों की कामना पूर्ण करने वाले, ज्योतिर्मय, जगत् के कारण, अच्युत तथा प्रकृति और पुरुष से परे विद्यमान वे पुरुषोत्तम सृष्टि के आदि में आविर्भूत हुए। इनका जो इस प्रकार नित्य ध्यान करता है, वह योगी योगियों में श्रेष्ठ है।
॥ अष्ट नाम गणपति ॥
नमो व्रातपतये । नमो गणपतये । नमः प्रमथपतये । नमस्तेऽस्तु लंबोदरायैकदंताय । विघ्ननाशिने शिवसुताय । श्रीवरदमूर्तये नमो नमः ॥ १०॥
व्रातपति, गणपति, प्रमथपति, लम्बोदर, एकदन्त, विघ्ननाशक, शिवतनय तथा वरदमूर्ति को नमस्कार है।
॥ फलश्रुति ॥
एतदथर्वशीर्षं योऽधीते ॥ स ब्रह्मभूयाय कल्पते ॥ स सर्वतः सुखमेधते ॥ स सर्व विघ्नैर्नबाध्यते ॥ स पंचमहापापात्प्रमुच्यते ॥ सायमधीयानो दिवसकृतं पापं नाशयति ॥ प्रातरधीयानो रात्रिकृतं पापं नाशयति ॥ सायंप्रातः प्रयुंजानो अपापो भवति ॥ सर्वत्राधीयानोऽपविघ्नो भवति ॥ धर्मार्थकाममोक्षं च विंदति ॥ इदमथर्वशीर्षमशिष्याय न देयम् ॥ यो यदि मोहाद्दास्यति स पापीयान् भवति सहस्रावर्तनात् यं यं काममधीते तं तमनेन साधयेत् ॥ ११॥
इस अथर्वशीर्ष का जो पाठ करता है, वह ब्रह्मीभूत होता है, वह किसी प्रकार के विघ्नों से बाधित नहीं होता, वह सर्वतोभावेन सुखी होता है, वह पंच महापापों से मुक्त हो जाता है। सायंकाल इसका अध्ययन करनेवाला दिन में किये हुए पापों का नाश करता है, प्रातःकाल पाठ करनेवाला रात्रि में किये हुए पापों का नाश करता है। सायं और प्रातःकाल पाठ करने वाला निष्पाप हो जाता है। (सदा) सर्वत्र पाठ करनेवाले सभी विघ्नों से मुक्त हो जाता है एवं धर्म, अर्थ, काम और मोक्ष- इन चारों पुरुषार्थों को प्राप्त करता है। यह अथर्वशीर्ष इसको नहीं देना चाहिये, जो शिष्य न हो। जो मोहवश अशिष्य को उपदेश देगा, वह महापापी होगा। इसकी १००० आवृत्ति करने से उपासक जो कामना करेगा, इसके द्वारा उसे सिद्ध कर लेगा।
(विविध प्रयोग)
अनेन गणपतिमभिषिंचति स वाग्मी भवति ॥ चतुर्थ्यामनश्नन् जपति स विद्यावान् भवति ।
स यशोवान् भवति ॥ इत्यथर्वणवाक्यम् ॥ ब्रह्माद्याचरणं विद्यात् न बिभेति कदाचनेति ॥ १२॥
जो इस मन्त्र के द्वारा श्रीगणपति का अभिषेक करता है, वह वाग्मी हो जाता है। जो चतुर्थी तिथि में उपवास कर जप करता है, वह विद्यावान् हो जाता है। यह अथर्वण-वाक्य है। जो ब्रह्मादि आवरण को जानता है, वह कभी भयभीत नहीं होता।
(यज्ञ प्रयोग)
यो दूर्वांकुरैर्यजति स वैश्रवणोपमो भवति ॥ यो लाजैर्यजति स यशोवान् भवति ॥ स मेधावान् भवति ॥ यो मोदकसहस्रेण यजति स वाञ्छितफलमवाप्नोति ॥ यः साज्यसमिद्भिर्यजति
स सर्वं लभते स सर्वं लभते ॥ १३॥
जो दुर्वांकुरों द्वारा यजन करता है, वह कुबेर के समान हो जाता है। जो लाजा के द्वारा यजन करता है, वह यशस्वी होता है, वह मेधावान होता है। जो सहस्त्र मोदकों के द्वारा यजन करता है, वह मनोवाञ्छित फल प्राप्त करता है। जो घृताक्त समिधा के द्वारा हवन करता है, वह सब कुछ प्राप्त करता है, वह सब कुछ प्राप्त करता है।
(अन्य प्रयोग)
अष्टौ ब्राह्मणान् सम्यग्ग्राहयित्वा सूर्यवर्चस्वी भवति ॥ सूर्यगृहे महानद्यां प्रतिमासंनिधौ वा जप्त्वा सिद्धमंत्रो भवति ॥ महाविघ्नात्प्रमुच्यते ॥ महादोषात्प्रमुच्यते ॥ महापापात् प्रमुच्यते ॥ स सर्वविद्भवति स सर्वविद्भवति ॥ य एवं वेद इत्युपनिषत् ॥ १४॥
जो आठ ब्राह्मणों को इस उपनिषद् का सम्यक ग्रहण करा देता है, वह सूर्य के समान तेज-सम्पन्न होता है। सूर्यग्रहण के समय महानदी में अथवा प्रतिमा के निकट इस उपनिषद् का जप करके साधक सिद्धमन्त्र हो जाता है। सम्पूर्ण महाविघ्नों से मुक्त हो जाता है। महापापों से मुक्त हो जाता है। महादोषों से मुक्त हो जाता है। वह सर्वविद् हो जाता है। जो इस प्रकार जानता है-वह सर्वविद् हो जाता है।
॥ शान्ति मंत्र ॥
ॐ सहनाववतु ॥ सहनौभुनक्तु ॥ सह वीर्यं करवावहै ॥ तेजस्विनावधीतमस्तु मा विद्विषावहै ॥
ॐ भद्रं कर्णेभिः शृणुयाम देवाः । भद्रं पश्येमाक्षभिर्यजत्राः ॥ स्थिरैरंगैस्तुष्टुवांसस्तनूभिः ।
व्यशेम देवहितं यदायुः ॥
ॐ स्वस्ति न इन्द्रो वृद्धश्रवाः । स्वस्ति नः पूषा विश्ववेदाः ॥ स्वस्तिनस्तार्क्ष्यो अरिष्टनेमिः ।
स्वस्ति नो बृहस्पतिर्दधातु ॥
ॐ शांतिः । शांतिः ॥ शांतिः ॥।
॥ इति श्रीगणपत्यथर्वशीर्षं समाप्तम् ॥